Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 25
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । २१ सञ्जी०–अनाकृष्टेति। विषयैः शब्दादिभिः रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इत्यमरः । अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारमन्तं दृष्टवतः। दृशेः क्वनिप। धर्मे रतिर्यस्य तस्य राज्ञो जरसा जरया विना । 'विस्रसा जरा' इत्यमरः । 'षिद्भिदादिभ्योऽङ्' इत्यङ्प्रत्ययः, 'जराया जरसन्यतरस्याम्' इति जरसादेशः। वृद्धत्वं वार्धकमासीत् । तस्य यूनो विषयवैराग्यादिज्ञानगुणसम्पत्त्या ज्ञानतो वृद्धत्वमासीदित्यर्थः । नाथस्तु-चतुर्विधं वृद्धत्वमिति ज्ञात्वा 'अनाकृष्टस्य' इत्यादिना विशेषणत्रयेण वैराग्यज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् । अ०-विषयः, अनाकृष्टस्य, विद्यानां, पारदृश्वनः, धर्मरतेः, तस्य, जरसा विना, वृद्धत्वम्, आसीत् । वा०-विषयैरनाकृष्टस्य विद्यानां पारदृश्वनो धर्मरतेस्तस्य जरसा विना वृद्धत्वेनाभावि । ___ सुधा-विषयैः = गन्धरसरूपस्पर्शशब्दैः, अनाकृष्टस्य अवशीकृतस्य, विद्यानां वेदवेदाङ्गादीनाम्, पारदृश्वनः = अन्तं दृष्टवतः, धर्मरतेः = पुण्यासक्तेः, तस्य =दिली. पस्य, जरसा विना=वृद्धावस्थामन्तरेण, वृद्धत्वम्-वाईकम्, आसीत् अभूत् । तस्य युवावस्थाऽऽपन्नस्य राज्ञो विषयविरक्त्यादिगुणशालितयैव ज्ञानतो वृद्धत्वमासीदिति । स०-न आकृष्टोऽनाकृष्टस्तस्यानाकृष्टस्य । पारं दृष्टवानिति पारदृश्वा तस्य पारदृश्वनः। को०-'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । 'स्यात् स्थाविरं तु वृद्धत्वं वृद्धसङ्घऽपि वा कम्' इत्यमरः । ___ता-विषयेभ्यो विरक्तोऽधीतवेदवेदाङ्गन्सकलविद्यो धर्माचरणतत्परो दिलीपो युवाऽपि सन् वृद्ध इवाभत्। * इन्दुः-विषयादिकों से नहीं खींचे जाते हुए (विषयों के वश में न होते हुये), विद्याओं के पार देखने वाले (अन्त करनेवाले), धर्म में रुचि रखने वाले उस राजा दिलीप को वृद्धावस्था (आये) बिना उक्त विशेषणों से वृद्धता प्रकट हुई ॥ २३ ॥ द्विविधं पितृत्वं रक्षणेनोत्पादनेन च । तत्र तस्य रक्षणेन पितृत्वमाह-- प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥ २४ ॥ सञ्जी०--प्रजानामिति । प्रजायन्त इति प्रजा जनाः 'उपसर्गे च संज्ञायाम्' इति डप्रत्ययः । 'प्रजा स्यात्संतती जने' इत्यमरः । तासां विनयस्य शिक्षाया आधानास्करणात् सन्मार्गप्रवर्तनादिति यावत् । रक्षणाद् भयहेतुभ्यस्त्राणाद् आपन्निवारणादिति यावत् । भरणादन्नपानादिभिः पोषणादपि । अपिः समुच्चये । स राजा पिताsभूत् । तासां पितरस्तु जन्महेतवो जन्ममात्रकर्तारः केवलमुत्पादका एवाभवन् । जननमात्र एव पितृणां व्यापारः। सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः। आहुश्च--(स पिता यस्तु पोषकः) इति ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149