________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । २१
सञ्जी०–अनाकृष्टेति। विषयैः शब्दादिभिः रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इत्यमरः । अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारमन्तं दृष्टवतः। दृशेः क्वनिप। धर्मे रतिर्यस्य तस्य राज्ञो जरसा जरया विना । 'विस्रसा जरा' इत्यमरः । 'षिद्भिदादिभ्योऽङ्' इत्यङ्प्रत्ययः, 'जराया जरसन्यतरस्याम्' इति जरसादेशः। वृद्धत्वं वार्धकमासीत् । तस्य यूनो विषयवैराग्यादिज्ञानगुणसम्पत्त्या ज्ञानतो वृद्धत्वमासीदित्यर्थः । नाथस्तु-चतुर्विधं वृद्धत्वमिति ज्ञात्वा 'अनाकृष्टस्य' इत्यादिना विशेषणत्रयेण वैराग्यज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् ।
अ०-विषयः, अनाकृष्टस्य, विद्यानां, पारदृश्वनः, धर्मरतेः, तस्य, जरसा विना, वृद्धत्वम्, आसीत् । वा०-विषयैरनाकृष्टस्य विद्यानां पारदृश्वनो धर्मरतेस्तस्य जरसा विना वृद्धत्वेनाभावि । ___ सुधा-विषयैः = गन्धरसरूपस्पर्शशब्दैः, अनाकृष्टस्य अवशीकृतस्य, विद्यानां वेदवेदाङ्गादीनाम्, पारदृश्वनः = अन्तं दृष्टवतः, धर्मरतेः = पुण्यासक्तेः, तस्य =दिली. पस्य, जरसा विना=वृद्धावस्थामन्तरेण, वृद्धत्वम्-वाईकम्, आसीत् अभूत् । तस्य युवावस्थाऽऽपन्नस्य राज्ञो विषयविरक्त्यादिगुणशालितयैव ज्ञानतो वृद्धत्वमासीदिति ।
स०-न आकृष्टोऽनाकृष्टस्तस्यानाकृष्टस्य । पारं दृष्टवानिति पारदृश्वा तस्य पारदृश्वनः।
को०-'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । 'स्यात् स्थाविरं तु वृद्धत्वं वृद्धसङ्घऽपि वा कम्' इत्यमरः । ___ता-विषयेभ्यो विरक्तोऽधीतवेदवेदाङ्गन्सकलविद्यो धर्माचरणतत्परो दिलीपो युवाऽपि सन् वृद्ध इवाभत्। * इन्दुः-विषयादिकों से नहीं खींचे जाते हुए (विषयों के वश में न होते हुये), विद्याओं के पार देखने वाले (अन्त करनेवाले), धर्म में रुचि रखने वाले उस राजा दिलीप को वृद्धावस्था (आये) बिना उक्त विशेषणों से वृद्धता प्रकट हुई ॥ २३ ॥ द्विविधं पितृत्वं रक्षणेनोत्पादनेन च । तत्र तस्य रक्षणेन पितृत्वमाह--
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ॥ २४ ॥ सञ्जी०--प्रजानामिति । प्रजायन्त इति प्रजा जनाः 'उपसर्गे च संज्ञायाम्' इति डप्रत्ययः । 'प्रजा स्यात्संतती जने' इत्यमरः । तासां विनयस्य शिक्षाया आधानास्करणात् सन्मार्गप्रवर्तनादिति यावत् । रक्षणाद् भयहेतुभ्यस्त्राणाद् आपन्निवारणादिति यावत् । भरणादन्नपानादिभिः पोषणादपि । अपिः समुच्चये । स राजा पिताsभूत् । तासां पितरस्तु जन्महेतवो जन्ममात्रकर्तारः केवलमुत्पादका एवाभवन् । जननमात्र एव पितृणां व्यापारः। सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः। आहुश्च--(स पिता यस्तु पोषकः) इति ।