________________
रघुवंश महाकाव्यम्
परस्परविरुद्धानामपि गुणानां तत्र साहचर्य्यमासी दित्याह
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥ २२ ॥ सञ्जी० - ज्ञान इति । ज्ञाने परवृत्तान्तज्ञाने सत्यपि मौनं वाङ्नियमनम् । यथाऽऽह कामन्दकः–(नान्योपतापि वचनं मौनं व्रतचरिष्णुता ) इति । शक्तौ प्रतीकारसामर्थ्येऽपि क्षमा अपकारसहनम् । अत्र चाणक्यः - ( शक्तानां भूषणं क्षमा ) इति । त्यागे वितरणे सत्यपि श्लाघाया विकत्थनस्य विपर्ययोऽभावः । अत्राह मनुः - ( न दत्त्वा परिकीर्तयेद् ) इति । इत्थं तस्य गुणा ज्ञानादयो गुणैर्विरुद्धमौनादिभिरनुबन्धित्वात्सहचारित्वात् सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इवाभूवन् । विरुद्धा अपि गुणास्तस्मिन्नविरोधेनैव स्थिता इत्यर्थः ।
२०
[ प्रथमः
अ०
० - ज्ञाने, मौनं शक्तौ, क्षमा, त्यागे, श्लाघाविपर्ययः, 'इत्थं' तस्य, गुणाः गुणानुबन्धित्वात् सप्रसवाः, इव, 'अभूवन्' इति शेषः ।
,
वा०-ज्ञाने मौनेन, शक्तौ क्षमया, त्यागे श्लाघाविपर्ययेण, तस्य गुणैर्गुणानुव न्धित्वात् सप्रसवैरिवाभावि ।
सुधा - ज्ञाने= परवृत्तान्तावगमे, 'सत्यपि' मौनं = वाणीनियमनं, शक्तौ = प्रतीका रसामर्थ्येऽपि, क्षमा = अपकार सहिष्णुता, त्यागे = दाने, 'सत्यपि' श्लाघाविपर्य यः=स्वप्रशंसनाभावः ‘इत्थं' तस्य = दिलीपस्य, गुणाः = ज्ञानप्रभृतयः, गुणानुवन्धि त्वाद् = विरुद्धमौनादिगुणसहचारित्वात्, सप्रसवाः = सोदर्य्याः, इव= यथा, अभूव न्निति शेषः । परस्परविरुद्धा अपि ज्ञानमौनादिप्रभृतयो गुणास्तत्राविरोधेनैवास न्निति भावः ।
स०- - गुणैरनुबन्धित्वं गुणानुबन्धित्वं तस्माद् गुणानुबन्धित्वात् ।
को० - 'क्षितिज्ञान्त्योः क्षमा' इत्यमरः । 'अस्त्री चाटु चटु श्लाघा प्रेम्ण मिथ्या विकत्थनम्' | 'मौन्य द्रव्याश्रिते सत्वशौर्य्यसन्ध्यादिके गुणः' इत्य मरः । 'स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने' इत्यमरः ।
ता० - दिलीपः परवृत्तान्तज्ञानवानपि प्रयोजनं विना तन्न वदति, प्रतीकारक रणक्षमोऽप्यपकारकर्तुरुपेक्षणं करोति, दाता सन्नपि नात्मविकत्थनं करोतिस्म ।
इन्दुः- दूसरे के वृत्तान्त को जानते हुये भी उस विषय में चुप रहना, साम रहने पर भी अपकार सहन करना, दान करने पर भी अपनी बड़ाई न करना इस प्रकार से उस राजा दिलीप के ज्ञानादिक गुण-विरुद्ध मौनादिक गुणों के साथ रहने से सहोदर के समान हुये ॥ २२ ॥
द्विविधं, वृद्धत्वं, ज्ञानेन वयसा च । तत्र तस्य ज्ञानेन वृद्धत्वमाहअनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ॥ २३ ॥