________________
सर्गः ]
सञ्जीविनी - सुधेन्दुटी कात्रयोपेतम् ।
१६
दिलीपस्य यथा लोके कार्येण पूर्वजन्मोद्भव संस्कारस्यानुमानं भवति तथैव सामाद्युपायप्रयोगाणामप्यनुमानमभूत् ।
इन्दुः- विचार को गुप्त रखने वाले, तथा बाहर - भीतर के हर्षशोकादि सूचक चिह्नों को छिपाने वाले, उस राजा दिलीप के कार्य 'सामदानाद्युपाय' फलों से अनुमान किये जाते थे, जैसे - कि पूर्व जन्म के संस्कार ॥ २० ॥
सम्प्रति सामाद्युपायान्विनैवात्मरक्षादिकं कृतवानित्याहजुगोपात्मानमत्रस्ती भेजे धर्ममनातुरः ।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्बभूत् ॥ २१ ॥ सञ्जी०-जुगोपेति । अत्रस्तोऽभीतः सन् । 'त्रातो, भीरुभीरुकभीलुकाः' इत्यमरः। त्रासोपाधिमन्तरेणैव त्रिवर्गसिद्धेः प्रथमसाधनत्वादेवात्मानं शरीरं जुगोप रक्षितवान् । अनातुरोऽरुग्ण एव धर्मं सुकृतं भेजे । अर्जितवानित्यर्थः । अगृध्नुर गर्धनशील एवार्थमाददे स्वीकृतवान् । 'गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ' इत्यमरः । ' त्रसिगृधिष्टषिक्षिपेः क्नुः' इति क्नुप्रत्ययः । असक्त आसक्तिरहित एव सुखमन्वभूत् ।
1
अ०–सः, अत्रस्तः, ‘सन्' आत्मानं, जुगोप, अनातुरः 'सन्' धर्मं, भेजे, अगृधनुः, 'सन्' अर्थम्, आददे, असक्तः 'सन्' सुखम्, अन्त्रभूत् । वा० - तेनात्रस्तेन सतात्मा जुगुपे, अनातुरेण धर्मो भेजे, अगृध्नुनाऽर्थ आददे, असक्तेन सुखमन्वभावि ।
सुधा - सः = दिलीपः, अत्रस्तः = अभीरुः, सन्निति शेषः, सर्वत्रानातुरादिषु योज्यम् । आत्मानं=कलेवरं, जुगोप = पालितवान् ( भयं विनैव पुरुषार्थं त्रयस्य सिद्धेरादिमसाधनत्वादेव शरीरं रक्षितवानिति भावः ) । अनातुरः = अरुग्णः, 'सन्' धर्म : = पुण्यम्, भेजे= सेवितवान्, अर्जितवानित्यर्थः । अगृध्नुः = अलोलुपः, 'सन्' अर्थ = द्रविणम्, आददे = गृहीतवान् ( स्व कृतवानित्यर्थः ) । असक्तः = आसक्तिरहितः 'सन्' सुखं = कल्याणम्, अन्वभूत् = अनुभूतवान् ।
स० - आतुतोर्तीत्यातुरः न आतुरोऽनातुरः ।
को० - 'आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च पर व्यावर्तनेऽपि च' इति धरणिः । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । ' आमयावी, विकृतो व्याधितोऽपटुः । आतुरोऽभ्यमितोऽभ्यान्तः' इत्यमरः । 'हिरण्यं द्रविणं द्युम्नमर्थरै विभवा अपि' इत्यमरः । 'शर्मशातसुखानि च' इत्यमरः ।
ता० - स दिलीपो भयादात्मानं न रचितवान्, रोगाद् धर्मं न सेवितवान्, लोभाद् धनं न गृहीतवान्, आसक्त्या सुखं नानुभूतवान् ॥ २१ ॥
इन्दुः- उस ( राजा दिलीप ) ने बिना डरे हुये अपने शरीर की रक्षा की, विना रोगी होते हुये धर्म का सेवन किया, विना लोभी होते हुये धन का ग्रहण किया, और बिना आसक्त होते हुये सुख का अनुभव किया ॥ २१ ॥