________________
रघुवंशमहाकाव्यम्
[प्रथमः___ को०-'ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः। वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इति । 'निर्वर्तनोपकरणानुव्रज्यासु च साधनम्' इत्यमरः। 'वुद्धिर्मनीषा धिपणा धीः प्रज्ञा शेमुपी मतिः' इत्यमरः । 'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः।
ता०-तस्य दिलीपस्य सेना प्रयोजनसम्पादिका नाभूत् केवलं तु शोभाऽर्थमेव । किन्तु राजनीतिविषया तदीया मतिः सज्यं शरासनञ्चेति द्वयेनैव सकलार्थसिद्धिरभूत्।
इन्दुः-उस राजा दिलीप की सेना तो छत्र चामर के समान केवल शोभार्थ हुई। क्योंकि प्रयोजन सिद्ध दो ही से होते थे, एक तो शास्त्रों में पैनी बुद्धि से, और दूसरे धनुष पर चढ़ी हुई प्रत्यंचा से ॥ १९ ॥ राज्यमूलं मन्त्रसंरक्षणं तस्यासीदित्याह
तस्य संवृतमन्त्रस्य गढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः सस्काराः प्राक्तना इव ।। २० ।। सञ्जी०-तस्येति । संवृतमन्त्रस्य गुप्तविचारस्य । 'वेदभेदे गुप्तवादे मन्त्रः' इत्यमरः। शोकहर्षादिसूचको भृकुटीमुखरागादिराकार इङ्गितं चेष्टितं हृदयगतविकारो वा। 'इङ्गिते हृद्तो भावो बहिराकार आकृतिः' इति सजनः। गूढे आकारेङ्गिते यस्य स्वभावचापलाद् भ्रमपरम्परया मुखरागादिलिङ्गैर्वाऽतृतीयगामिमन्त्रस्य तस्य प्रार• भ्यन्त इति प्रारम्भाः सामाधुपायप्रयोगाः । प्रागित्यव्ययेन पूर्वजन्मोच्यते तत्र भवाः प्राक्तनाः। 'सायंचिरंप्राहेप्रगेऽव्ययेभ्यष्टयुटयलौ तुट् च' इत्यनेन ट्यल्प्रत्ययः । संस्काराः पूर्वकर्मवासना इव । फलेन कार्यणानुमेया अनुमातुं योग्या आसन् । अत्र याज्ञवल्क्यः - मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामाफलोदयात् ॥' इति ।
अन्वयः-संवृतमन्त्रस्य, च, गूढाकारेगिन्तस्य, तस्य प्रारम्भाः,प्राक्तनाः, संस्काराः, इव, फलानुमेयाः, 'आसन्' इति शेषः। वा०-संवृतमन्त्रस्य च गूढाकारेगितस्य तस्य प्रारम्भैः प्राक्तनैः संस्कारैरिव फलानुमेयरभावि।।
सुधा-संवृतमन्त्रस्य = गुप्तविचारस्य, च-पुनः, गूढाकारेभित्तस्य अप्रकटिताकृतिहृद्दतभावस्य, तस्य दिलीपस्य, प्रारम्भाः सामाधुपायप्रयोगाः, प्राक्तना= पूर्वजन्मोद्भवाः, संस्काराः = कर्मवासनाः, इव = यथा, फलानुमेयाः = कार्यज्ञेयाः, आसन्निति शेषः । तस्य दिलीपस्य मन्त्रोऽतीव गुप्ततम आसीदिति भावः।
स-संवृतो मन्त्रो यस्य स संवृतमन्त्रस्तस्य संवृतमन्त्रस्य, आकारश्चेगिन्तञ्च आकारेगिन्ते । गृढे आकारेगिते यस्य स गृढाकारेगिन्तस्तस्य गढाकारेभित्तस्य । ___ को०-'फलं हेतुकृते जातीफले फलकसस्ययोः। त्रिफलायाञ्च कक्कोले शस्त्राने व्युष्टिलाभयोः' इति हैमः।
ता०-शोकहादिसूचकैर्भृकुटीमुखरागादिलिङ्गैरप्यतृतीयगामिमन्त्रस्य तस्य दि