________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।
सुधा-सः=राजा दिलीपः, जनानां प्रजानां, भूत्यर्थ = सम्पत्त्यर्थ, वृद्धयर्थमिति यावत्, एव= निश्चयेन, ताभ्यः = प्रजाभ्यः, बलिं =भागधेयं, षष्ठांशरूपमिति भावः । अग्रहीत् =जग्राह, हि = यतः, रविः=भानुः, सहस्रगुणं सहस्रगुणाधिकम्, उत्स्रष्टुं = दातुं, रसम् अम्बु, आदत्ते-गृह्णाति । राजा दिलीपो यत् करं षष्ठांशरूपं गृह्णाति ततोऽप्यधिकं प्रजानां सुखवृद्ध्यर्थं द्रव्यं यज्ञादावुत्सृजतीति भावः ।
स०-सहस्रं गुणा यस्मिन् कर्मणि तत् सहस्रगुणं क्रियाविशेषणमेतत् ।
को०-'प्रजा स्यात् सन्ततौ जने' इत्यमरः । 'भूतिभस्मनि सम्पदि' इत्यमरः। 'भानुहंसः सहस्रांशुस्तपनः सविता रविः' इत्यमरः।।
ता०-यथा सूर्यः सहस्रगुणं वर्षाद्वारा दातुं जलं गृह्णाति तथैव दिलीपोऽपि प्रजानां सुखवृद्धचर्थमेव ताभ्यः करं गृहीत्वा ततोऽप्यधिकेन तेन यज्ञादिमार्गसेतुवापीकूपतडागादिनिर्माणं करोति ।
इन्दुः-प्रजा की भलाई ही के लिए वह राजा दिलीप उन सवों से (अर्थात् प्रजा से) कर लेता था, जैसे-कि सहस्रगुना बरसाने ही के लिये सूर्य जल लेता है। सम्प्रति बुद्धिशौर्यसम्पन्नस्य तस्यार्थसाधनेषु परानपेक्षत्वमाह
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रेष्वनुण्ठिता बुद्धिौर्वी धनुषि चातता ।। १६ ।। सञ्जी०-सेनेति । तस्य राज्ञः सेना चतुरङ्गबलं परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव । छत्रचामरादितुल्यमभूदित्यर्थः । 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्ययः 'छादेर्धेऽद्वयुपसर्गस्य' इत्युपधाहस्वः। अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव । शास्त्रेष्वकुण्ठिताऽव्याहता बुद्धिः 'व्यापृता' इत्यपि पाठः, धनुष्यातताऽsरोपिता मौर्वी ज्या च । 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः। नीतिपुरःसरमेव, तस्य शौर्यमभूदित्यर्थः। ___ अ०-तस्य, सेना, परिच्छदः, (बभूवेति शेषः, बुद्धयादिषु सर्वत्र योज्यम्) अर्थसाधनं, द्वयम्, एव, (एकम् ) शास्त्रेषु अकुण्ठिता, बुद्धिः, (अपरम्) धनुषि, आतता मौवीं, च । वा०-तस्य सेनया परिच्छदेनाभावि, शास्त्रेष्वकुण्ठितया बुद्धया धनुषि चाततया मौा च 'इति' द्वयेनैवार्थसाधनेनाभावि।।
सुधा-तस्य = राज्ञो दिलीपस्य, सेना=सैन्यम्, परिच्छदः उपकरणम्, वभूवेति शेषः । बुद्धयादिषु सर्वत्र योज्यम् । छत्रचामरादितुल्यं शोभाऽर्थमेवाभूदिति भावः। अर्थसाधन प्रयोजननिर्वर्तनं, द्वयमेव = द्वितयमेव, (एकम् ) शास्त्रेषु = नीतिशास्त्रादिषु, अकुण्ठिता = अव्याहता, युद्धिः=मति, (अपरम्) धनुषि= कोदण्डे, आतता = आरोपिता, मौर्वी = शिञ्जिनी, गुण इति यावत् । च, नीतिशास्वादिसम्मतमेव तस्य शौर्यप्रदर्शनमभूदिति भावः ॥
स०-साध्यतेऽनेनेति साधनम्, अर्थस्य साधनम् अर्थसाधनम् । २. रघु० १ सर्ग