________________
रघुवंशमहाकाव्यम्
[प्रथम:मनोः, मनुमारभ्येत्यभिविधिः । पदद्वयं चैतत् । समासस्य विभाषितत्वात् । क्षुण्णादभ्यस्ताग्रहताच वर्मन आचारपद्धतेरध्वनश्च परमधिकम् । इतस्तत इत्यर्थः । रेखा प्रमाणमस्येति रेखामानं रेखाप्रमाणम् । ईषदपीत्यर्थः । 'प्रमाणे द्वयसज्दघ्नम्मावचः' इत्यनेन मात्रच्प्रत्ययः परशब्दविशेषणं चैतत् । न व्यतीयुर्नातिक्रान्तवत्यः । कुशलसारथिप्रेषिता रथनेमय इव यस्य प्रजाः पूर्वक्षुण्णमार्ग न जहुरिति भावः। ____अ०-नियन्तुः, तस्य, नेमिवृत्तयः, प्रजाः आ, मनोः क्षुण्णात्, वर्त्मनः, परं, रेखामात्रम्, अपि, न व्यतीयुः । वा०-नियन्तुस्तस्य नेमिवृत्तिभिः प्रजाभिरा मनोः क्षुण्णात् वर्मनः परं रेखामात्रमपि न व्यतीये।
सुधा-नियन्तुः= शिक्षकस्य-सारथेच, तस्य = दिलीपस्य, नेमिवृत्तयः-चक्रधाराव्यापाराः, प्रजाः जनाः, आ मनोः मनुसारभ्य, क्षुण्णा अभ्यस्तात्-ग्रहताच, वर्मनःआचारपद्धतेः=मार्गाच, परम्-अधिकम्, इतस्तत इत्यर्थः। रेखामात्रंरेखाप्रमाणम्, अपि, न= नहि, व्यतीयुः=व्यतिक्रान्तवत्यः । कुशलसारथिप्रेरिता रथनेमय इव तस्य प्रजाः पूर्वक्षुण्णमार्ग न जहुरिति भावः।
स०-नेमीनां वृत्तिरिव वृत्तिर्यासां ता नेमिवृत्तयः ।
को०-'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः । अयनं वर्त्म मार्गावपन्धानः पदवी सृतिः' इत्यमरः । 'प्रजा स्यात् सन्तती जने' इत्यमरः।
ता०-यथा निपुणसारथिसञ्चालिता रथचक्रधाराः पूर्वक्षुण्णसरणिं न जहति, तथैव तस्य दिलीपस्य प्रजा अपि पूर्वाभ्यस्ता मनूपदिष्टामाचारपति न तस्यजुः ।
इन्दुः-शिक्षक अथवा सारथि के सदृश उस राजा दिलीप की रथ के पहिये की भौति चलनेवाली प्रजायें मनु के समय से बताये हुए ( रथचक्रधारापक्ष में खुदे. हुए) मार्ग से लकीर भी बाहर न गई ॥ १७ ॥ तस्य करग्रहणं प्रजानां सुखविधानार्थमित्याह
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् |
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ।। १८ ।। , सञ्जी०-प्रजानामिति । स राजा प्रजानां भूत्या अर्थाय भूत्यर्थ वृद्धयर्थमेव । (अर्थन सह नित्यसमासः सर्वलिडन्ता च वक्तव्या) ग्रहणक्रियाविशेषणं चैतत । ताभ्यः प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत् । 'भागधेयः करोः बलिः' इत्यमरः । तथा हि । रविः सहस्रं गुणा यस्मिन्कर्मणि तद्यथा तथा सहस्रगुणं सहस्रधोत्स्रष्टुं दातुम् । उत्सर्जनक्रियाविशेषणं चैतत् । रसमम्वादत्ते गृह्णाति । 'रसो गन्धे रसे स्वादे तिक्तादौ विषरोगयोः। शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे ॥' इति विश्वः । ___ अ०-सः, प्रजानां, भूत्यर्थम्, एव, ताभ्यः, बलिम्, अग्रहीत्, हि, रविः, सहस्रगुणम् उत्सष्टुं, रसम्, आदत्ते । वा०–तेन प्रजानां भूत्यर्थमेव ताभ्यो बलिरग्राहि, हि सहस्रगुणमुत्स्रष्टुं रविणा रस आदीयते ।