________________
१५
सर्गः] सञ्जीविनी-सुधेन्दुटीकोपेतम् ।
शास्त्र के अनुरूप कर्म प्रारम्भ करनेवाले, प्रारम्भ किए हुए कर्म के अनुरूप फल सिद्धि प्राप्त करनेवाले (दिलीप थे)॥ १५ ॥ छतस्य भयङ्करत्वं मनोरमत्वञ्च दर्शयति
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः । १६ ॥ सञ्जी०-भीमेति । भीमैश्च कान्तैश्च नृपगुणैः राजगुणस्तेजःप्रतापादिभिः कुलशीलदाक्षिण्यादिभिश्च स दिलीप उपजीविनामाश्रितानाम् । यादोभिर्जलजीवैः 'यादांसि जलजन्तवः' इत्यमरः । रत्नेश्वार्णव इति । अध्ष्योऽनभिभवनीयः। अभिगम्य आश्रयणीयश्च बभूव ॥
अ०-भीमकान्तैः, नृपगुणैः, सः, उपजीविनो, यादोरत्नैः, अर्णवः इव अपृष्यश्च, अभिगम्यश्च, बभूव ॥ वा०-भीमकान्तैनूपगुणैरुपजीविनां तेनावृष्येण चाभिगम्येन च यादोरत्नैरणवेनेव बभूवे ॥
सुधा-भीमकान्तैः = भयङ्करमनोज्ञैः, नृपगुणैः राजगुणैः, तेज प्रतापदयादाक्षिण्यादिभिरिति यावत् । सः दिलीपः, उपजीविनाम् = आश्रितानां, यादोरत्नैः= जलजन्तुमणिभिः, अर्णवः समुद्रः, इव= यथा, अष्यश्च = अनभिभवनीयश्च, अभिगम्यश्च, सेवनीयश्च, बभूव = अभूत् ॥ .
स०-भीमाश्च कान्ताश्च भीमकान्ताः तैर्भीमकान्तैः। यादांसि च रत्नानि च यादोरत्नानि तैर्यादोरत्नैः॥
को०-दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्' इत्यमरः । 'कान्तं मनोरम रुच्यं मनोज्ञं मन्जु मन्जुलम्' इत्यमरः। 'मौया द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः' इत्यमरः । 'राजा राट् पार्थिवच्माभृन्नृपभूपमहीक्षितः' इत्यमरः । 'रत्नं मणियोरश्मजातौ मुक्ताऽऽदिकेपि च' इत्यमरः। 'सरस्वान् सागरोऽर्णवः' इत्यमरः । ___ ता०--स दिलीपो जलजन्तुरत्नादिभिः समुद्र इव तेज प्रतापादिभिः कुलशील. दाक्षिण्यादिभिश्च सर्वराजगुणैराश्रितानामनभिभवनीयः सेवनीयश्च बभूव । ___ इन्दुः--भयानक और मनोरम राजगुणों (तेज, प्रताप आदि और दया दाक्षिण्यादि) के कारण आश्रितों को वह राजा दिलीप, जलजन्तु और रनों के कारण से समुद्र के समान दूर रहने योग्य और सेवा करने योग्य हुए ॥ १६ ॥ तस्य प्रजा राजनिदेशवर्त्तिन्य इत्याह---
रेखामात्रमपि क्षुण्णादा मनावर्त्मनः परम् ।
न व्यतीयुःप्रजास्तस्य नियन्तुमिवृत्तयः ।। १७ ।। सञ्जी०-रेखेति । नियन्तुः शिक्षकस्य सारथेश्च तस्य दिलीपस्य सम्बन्धिन्यो नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिापारो यासां ताः 'चक्रधारा प्रधिर्नेमिः' इति यादवः। 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्' इत्यमरः । प्रजाः। आ