________________
१४ रघुवंशमहाकाव्यम्
[प्रथमःरिक्तसारस्तेन सर्वातिरिकसारेण, सर्वेषां तेजांसि सर्वतेजांसि तान्यभिभवितुं शीलमस्य स सर्वतेजोऽभिभावी तेन सर्वतेजोऽभिभाविना। . __को०--'अतिरिक्तः समधिकः' इत्यमरः । 'तेजः प्रभावे दीप्तौ च बले शुक्रेऽपि' इत्यमरः । 'उच्चप्रांशून्नतोदग्रोच्छ्तिास्तुङ्गे' इत्यमरः । 'सर्वसहा वसुमती वसुधो: वसुन्धरा' इत्यमरः । 'मेरुः सुमेरुहेमाद्री रत्नसानुः सुरालयः' इत्यमरः ।
ता०-यथा सकलपर्वतापेक्षयाऽधिकसारः स्वतेजसाऽन्याभिभवकर्ता सकलपर्वतापेक्षयोन्नतो मेरुः पर्वतो भूमिमाक्रम्य स्थितस्तथव दिलीपोऽपीति ।
इन्दुः-सबसे अधिक बलवान् (मेरुपक्ष में सबसे अधिक स्थिर), सभी लोगों के तेज को अपने प्रभावसे ( मेरुपक्षमें कान्तिमे) नीचा दिखलानेवाले, सब से अधिक ऊँचे शरीर से मेरु पर्वत के समान पृथ्वी को दवाकर बैठे हुए ॥ १४ ॥
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः।
आगमैः सदृशारम्भ आरम्भसहशोदयः ।। १५ ॥ सञ्जी०-आकारेति । आकारेण मूर्त्या सदृशी प्रजा यस्य सः । प्रज्ञया सहशागमः = प्रज्ञाऽनुरूपशास्त्रपरिश्रमः । आगमः सदृश आरम्भः कर्म यस्य स तथोक्तः । आरभ्यत इत्यारम्भः कर्म । तत्सदृश उदयः फलसिद्धिर्यस्य स तथोक्तः।
अ०-आकारसदृशप्रज्ञः, प्रज्ञया, सदृशागमः, आगमः, सदृशारम्भः' आरम्भसदृशोदयः, ‘स दिलीप आसीदिति' शेपः । वा०-आकारसदृशप्रज्ञेन प्रज्ञया सहशा. गमेनागमैः सदृशारम्भसदृशोदयेन 'दिलीपेनाभावि'।
सुधा-आकारसहशप्रज्ञः=आकृतितुल्यबुद्धिः, प्रज्ञया मत्या, सदृशागमा अनुरूपशास्त्रः, तस्य दिलीपस्य यादृशी तीचणा मतिरासीत् तादृशः शास्त्रेषु परिश्रमाऽ. पीति भावः। आगमैः शास्त्रैः, राजनीत्यादिभिरिति यावत ।,सदृशारम्भ समानोद्धातः, नीतिशास्त्राद्यनुकूलसकलकार्यारम्भ इति भावः। आरम्भसदृशोदयः = उपक्रमानुरूपफलसिद्धिः,प्रारब्धकर्मतुल्यफलसिद्धिरिति भावः। स दिलीप मासीदिति शेषः।
स०-आकारेण सदृशी आकारसहशी आकारसहशी प्रज्ञा यस्यासौ आकारसदृशप्रज्ञः आरम्भेण सहशः आरम्भसदृशः, आरम्भसदृश उदयो यस्य स आरम्भसदृशोदयः। ___ को०-'आकाराविगिताकृती' इत्यमरः । 'वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सहग्' इत्यमरः । 'वुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । 'प्रक्रमः स्यादुपक्रमः । स्यादभ्यादानमुद्धात आरम्भ' इत्यमरः।
ता०-तस्य राज्ञो दिलीपस्य यथाऽऽकारोत्युन्नतस्तथा बुद्धिरपि महती, यथा च बुद्धिस्तथा शास्त्रेषु परिश्रमः, यथा शास्त्रानुसारिणी क्रिया तथा क्रियाऽनुरूपा फलसिद्धिरासीत् ।
इन्दुः-आकार के सदृश बुद्धिवाले बुद्धि के सदृश शास्त्र का अभ्यास करनेवाले