________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । मूर्तिमान्पराक्रम इव स्थित इत्युत्प्रेक्षा॥ ___ अ०-व्यूढोरस्कः, वृषस्कन्धः शालप्रांशुः, महाभुजः, आत्मकर्मक्षम, देहम्, आश्रितः, क्षात्रः, धर्मः, इव,(स्थितः)॥वा०-व्यूढोरस्केन वृपस्कन्धेन शालग्रांशुना महाभुजेनात्मकर्मक्षम देहमाश्रितेन क्षात्त्रेण धर्मेणास्थायि ॥ ___ सुधा-व्यूढोरस्कः = विपुलवक्षःस्थलः, वृषस्कन्धः = वृषभांसः, शालप्रांशुः = शालवृक्ष इव उन्नतः, महाभुजः = दीर्घबाहुः आजानुबाहुरिति यावत् । आत्मकर्मक्षमस्वकार्यसाधनसमर्थ, देहं = शरीरम, आश्रितः = अधिगतः, क्षात्रः क्षत्रसम्बन्धी, धर्मः = स्वभावः, इव= यथा, स्थितः, मूर्तिमान् क्षत्रियधर्मः पराक्रम इव स्थित इत्युत्प्रेक्षा॥
स-प्रकृष्टा अंशवोऽस्यासी प्रांशुः, शाल इव प्रांशुः शालप्रांशुः । अततीत्यात्मा तस्य कर्म, आत्मकर्म तस्मिन् क्षमं आत्मकर्मक्षमस्तम् आत्मकर्मक्षमम् ।
को०-स्कन्धो भुजशिरोऽसोऽस्त्री' इत्यमरः। 'भुजबाहू प्रवेष्टो दोः स्याद' इत्यमरः । 'कायो देहः क्लीवपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः॥
ता०-मूर्तिमान् क्षात्रधर्मः पराक्रम इव दिलीपः स्थितः॥
इन्दुः-चौड़ी छातीवाले, बैल के कन्धे के समान कन्धेवाले, साल सरीखे ऊँचे लम्बी भुजावाले, अपने काम के करने में समर्थ देह को धारण किये हये, जैसे क्षत्रियों का धर्म पराक्रम हो, उसके समान दिलीप हुये ॥१३॥
सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना ।
स्थितः सर्वोन्नतेनोवीं क्रान्त्वा मेरुरिवात्मना ।। १४ ॥ सञ्जी०-सर्वेति । सर्वातिरिक्तलारेण सर्वेभ्यो भूतेभ्योऽधिकबलेन 'सारो वले स्थिरांशे च' इत्यमरः सर्वाणि भूतानि तेजसाऽभिभवतीति सर्वतेजोऽभिभावी तेन । सर्वेश्य उन्नतेनात्मना शरीरेण 'आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि' इति विश्वः । मेरुरिव । उर्वी क्रान्त्वाऽऽक्रम्य स्थितः। मेरावपि विशेषणानि तुल्यानि । 'अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥' इति मनुवचनाद्राज्ञः सर्वतेजोऽभिभावित्वं ज्ञेयम् । ____ अ०-सर्वातिरिक्तसारेण, सर्वतेजोऽभिभाविना, सर्वोन्नतेन, आत्मना, मेरुः, इव उर्वी क्रान्त्वा (स्थितः)॥
वा०--सर्वातिरिक्तसारेण सर्वतेजोभिभाविना सर्वोन्नतेनात्मना मेरुणेव (तेन) उर्वी क्रान्त्वा स्थितेनाभावि ॥
सुधा--सर्वातिरिक्तसारेण = अशेषप्राणिसमधिकबलेन, सर्वतेजोऽभिभाविना = समस्तप्रभावाभिभवकारिणा, स्वप्रभावेण सकलजनाभिभवकारिणेति भावः । सर्वोनतेन=निःशेषोच्छूितेन, आत्मना=शरीरेण मेरुः सुमेरुः, इव-यथा, उर्वी = वसुन्धरां, क्रान्त्वा = आक्रम्य, स्थितः= स्थितवान् ।
स०-सर्वेभ्योतिरिक्तः सर्वातिरिक्त सर्वातिरिक्तः सारो यस्य स सर्वाति