________________
रघुवंशमहाकाव्यम्
[प्रथम:श्वर्ये रघुवंशे प्रधानपुरुषस्य रघोः पितृनामकथनम्
तदन्वये शुद्धिति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ।। १२ ॥ मञ्जी०--तदिति । शुद्धिरस्यास्तीति शुद्धिमान् । तस्मिशुद्धिमति सदन्वये नस्य मनोरन्वये वंशे । 'अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनं कुलम्' इति हलायुधः। अतिशयेन शुद्धिमाशुद्धिमत्तरः 'द्विवचनविभज्योप०' इत्यादिना तरप् । दिलीप इति प्रसिद्धो राजा इन्दुरिव राजेन्दू राजश्रेष्ठः। 'उपमितं व्याघ्रादिभिः०' इत्यादिना समासः । क्षीरनिधाविन्दुरिव प्रसूतो जातः॥
अ०-शुद्धिमति, तदन्वये, शुद्धिमत्तरः, दिलीपः, इति, राजेन्दुः, क्षीरनिधी, इन्दुः, इव, प्रसूतः ।। वा०-शुद्धिमति तदन्वये शुद्धिमन्तरेण दिलीपेनेति राजेन्दुना क्षीरनिधाविन्दुनेव प्रसूतेनाभावि ।। .
सुधा-शुद्धिमति = पवित्रताऽऽपन्ने, निष्कलङ्क इत्यर्थः। तदन्वये = मनुवंशे, शुद्धिमत्तरः = अतिपवित्रः, दिलीपः = दिलीपेत्याह्वः, इति = प्रसिद्धः,प्रकाशार्थकमा व्ययमेतद् । राजेन्दुः = भूपचन्द्रः, आन्दोः श्रेष्ठार्थबोधकतया राजश्रेष्ठ इत्यों वोध्यः । क्षीरनिधौ=दुग्धोदधौ, इन्दुः = चन्द्रः, इव = यथा, प्रसूतः जातः॥
सक-निधीयतेऽस्मिन्निति निधिः, क्षीरस्य निधिः क्षीरनिधिस्तस्मिन् क्षीरनिधौ।
को०-'हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः, कुमुदवान्धवः' इति । 'सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः' इति । (अत्रादिपदेनेन्दोरपि श्रेष्ठार्थबोधकत्वेन ग्रहणं बोध्यम्) 'दुग्धं क्षीरं समम्' इति । 'इति हेतुप्रकरणप्रकाशादिसमाप्तिषु' इति । 'व वा यथा तथैवेवं सास्य' इति चामराः ॥
ता०-यथा क्षीरनिधाविन्दुर्जातस्तथा मनुवंशे दिलीपो जातः॥
इन्दुः-पवित्र उस 'वैवस्वत मनु के वंश में, अतिपवित्र, राजाओं में चन्द्र (अर्थात् श्रेष्ठ) 'दिलीप' इस नाम से प्रसिद्ध क्षीरसमुद्र में चन्द्रमा के समान उत्पन्न हुए ॥ १२॥ 'न्यूड' इत्यादित्रिभिः श्लोकैर्दिलीपं विशिनष्टि
व्यूढोस्को वृषस्कन्धः शालांशुमहाभुजः।
अन्मकर्मक्षमं देहं क्षात्री धम इवाश्रितः ।। १३ ।। सञ्जी-व्यूढेति । व्यूढं विपुलमुरो यस्य स व्यूढोरस्कः । 'उम्प्रभृतिभ्यः कप' इति कप्प्रत्ययः । 'व्यूढं विपुलं भद्रं स्फारं समं वरिष्ठं च' इति यादवः। वृषस्य स्कन्ध इव स्कन्धो यस्य स तथा। 'सप्तम्युपमान' इत्यादिनोत्तरपदलोपिबहुव्रीहिः । शालो वृक्ष इव प्रांशुरुन्नतः शालप्रांशुः । 'प्राकारवृक्षयोः शालः शालः सर्जतरुः स्मृतः' इति यादवः 'उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे' इत्यमरः । महाभुजो महाबाहुः । आत्मकर्मक्षम स्वव्यापारानुरूपं देहमाश्रितः प्राप्तः क्षात्रः क्षत्रसम्बन्धी धर्म इव स्थितः ।