Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 405
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३७१॥ ऊनसूत्रे स्त्रीजिनपूजानिषेधः AlumeHIMIREONI प्रतिषिद्धा, यदुक्तं-"संभवइ अकालेऽविहु कुसुमं महिलाण तेण देवाणं । पूआई अहिगारोन ओघओ सुत्तनिहिट्ठो॥१॥ न छिविंति जहा देहं ओसरणे भावजिणवरिंदाणं । तह तप्पडिमंपि सया पूअंति न सड्ढनारीओ।।२॥"इत्यादि जिनदत्तसूरिकृतस्य कुलकस्य जिनकुशलमूरिकृतायां वृत्तौ,अत्र स्त्रीजनमात्रस्य पूजा निषिद्धा,मापि जिनोक्तेति तीर्थकरकलङ्कदानं,या तु गाथाद्वयसम्मतिदर्शिता सा च स्वयं कृत्वैव शास्त्रोक्तमिति शास्त्रस्यापि कलङ्कदानं,नहि काप्यागमे एतद् गाथाद्वयमस्तीति, अत एव खरतरजातिस्वाभाव्यासम्मतिदानं प्रायः कलङ्कमेव बोध्यं, ननु तथाविधोऽपावित्र्यहेतुकामाशातनां दृष्ट्वा श्रीजिनेन्द्रविषयकपरमभक्त्युल्लसितमानसोऽस्मद्गुरुः स्त्रीणां जिनपूजां निषिद्धवान् तत्र को दोष इति चेन्मैवं, तीर्थकद्गणधरादीनां तीर्थस्य च महाशातनाकारित्वाञ्जिनाज्ञामन्तरेण तीर्थकहुद्देशेनापि कृतस्य कृत्यस्य महानर्थहेतुत्वाद् ,यदाहुः श्रीहरिभद्रसूरिपादाः-"समतिपवित्ती सहा आणाब| ज्झत्ति भवफला चेव । तित्थकरुद्देसेणवि ण तत्तओ सा तदुद्देसा ॥१॥" इति पश्चाशकसूत्रे, अस्या वृत्तिर्यथा-स्वमतिप्रवृत्तिःआत्मबुद्धिपूर्विका चेष्टा सर्वा-समस्ता द्रव्यस्तवभावस्तवदिषया आज्ञाबाह्या-आप्तोपदेशशून्या इति हेतोभवफलैब-संसारनिबन्धनमेव, आज्ञाया एव भवोत्तारणहेतुतया प्रणाणत्वादिति, ननु या तीर्थकरानुद्देशवती सा भवफला युक्ता, नत्वितरा,जिनपक्षपातस्य महाफलत्वादित्याशङ्कयाह-तीर्थकरोद्देशनापि-जिनालम्बनतोऽपि,आस्तां ततोऽन्यत्र,स्वमतिप्रवृत्तिर्भवफलैवेति प्रकृतं,कुत एवं?-यतो न तत्वतः-परमार्थतः सा-तीर्थकरोद्देशवती स्वमतिप्रवृत्तिस्तस्मिन् तीर्थकरे उद्देशः-प्रणिधानं यस्याः सा तदुद्देशा,य एवाज्ञाबाह्यो वर्तत इत्यभिधीयते,नापरः इति श्रीपञ्चाशकवृत्तिः। किंच तथाविधाशातनाहेतुरपावित्र्यं स्त्रीणांनाधुनिकादिकालविशेषजन्यं,किंतु सर्वकालीनं स्वीस्वभावजन्यं,तच्च तीर्थकरादिकालेऽपि समानं,एवं च सति खीणां जिनपूजा जिनादिभिन निषिद्धा जिनदत्तेन च निषिद्धेति | MUSUAN ||३७१॥

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498