Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 439
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥४०५॥ | स्थातव्यमिति प्रागुक्तपञ्चाशकवृत्याद्यनुसारेण सा आचरणा ऊनताविषयिणी बोध्या, अन्यथैवं विकल्पासंभवात् नहि व्युच्छिन्ने ऊनसूत्रं | मासकल्पे पाटकादिपरावृत्तिभणनं सप्रयोजनं स्याद्, यद्यपि कुपाक्षिकस्य देशान्तर परिभ्रमणमग्निवत्तत्तद्देशनिवासिनां जनानामहितायैवेतिकृत्वा नित्यवास एव श्रेय इति तदर्थं शास्त्रसम्मतिप्रदर्शनमनुचितमेव, तथाऽपि मासकल्पाविहारवदिति वाक्यमुद्घोषयन् तीर्थान्तर्वर्तिनां कतिचिन्मुग्धानां प्रमाद रुचिकानां च साधूनां शङ्काहेतुर्भवतीति तमिरामार्थं सार्थकमेवेतिगाधार्थः ॥ २०९ ॥ अथ तात्पर्यमाह करणाणुणा तत्थवि जो भणड़ मासवुच्छेअ । सो वित्तमुच्छकद्दममंओ पंडिअमण्णो ||२०२|| एवं प्रागुक्तप्रकारेण मासकल्पादिकरणानुज्ञा जिनाज्ञा, तत्रापि यो मासकल्पव्युच्छेदं भणति स क्षेत्रमूर्च्छा-नित्यवासलाम्पटचं | तल्लक्षणो यः कर्दमः - कचवरः तत्र तत्संबन्धी वा मण्डकः सन् पण्डितंमन्यः - स्वगृह एवात्मानं पण्डितं मन्यते इति गाथार्थः ॥ २०२ ॥ अथोन मत्सूत्रमुपसंहरन्नाह गिहिणो पाणागारा पंचासयमाइवुत्तअविलुत्ता । इच्चाइ अणेगविहं उस्सुत्तं तम्मण ऊणं ॥ २०३ ॥ गृहिणां पानाकाराः पाणस्स लेवेण वा अलेवेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वे 'ति पानस्य षडाकाराः न | संभवन्तीति निजमतिविकल्पनया पञ्चाशकाद्युक्ता अपि लुप्ता - णिगन्तर्गम्यः लोपिता - नाङ्गीकृताः, तत्र पंचाशकादिर्यथा - " इह पुण | अद्धारूवं णवकारादी पइदिणुवओगित्ति । आहारगोअरं जइगिहीण भणिओ इमं चैव ।। १ ।। ग्रहणे आगारे सामाइए चैव विहिसमाउतं । | भेए भोगे सयपालणाए अणुबंधभावे अ ||२||त्ति" पंचा० सूत्रे (१८७-८) तद्वृत्तौ च० गृहिसाधुसाधारणप्रत्याख्यानं तदाकारा - ॥४०५॥

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498