Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 498
________________ H श्रीप्रवचनपरीक्षा ५विश्रामे // 464 // शिक्षा ARISHCHATARISHINIRRIALNIRAURAHIM ARMAP अधेह शेपप्रसिद्धोत्सूत्रज्ञापनाय गतिमाह स्तनिकमतपुण्णिमपखिअपच्छाइरिआपमुहाइंजाइ इअराई। ताइचिअतिअ(तियचउ)विस्सामुत्ताई इहंपि नेआई॥५६॥ पूर्णिमापाक्षिकं पश्चादीर्या श्रावकाणां सामायिके इत्यादीनि यान्युत्सूत्राणि तानि तृतीयचतुर्थविश्रामोक्तानीहापि ज्ञेयानीति / गाथार्थः // 56 / / अथ चतुर्थविश्रामोपसंहारमाहएवं कुवरवकोसिअ० कहिओइह पंचमोथणिओ॥५७॥ नवहत्थकायरायं॥५८॥ इअसासणउदयगिरि०॥५९॥ ___एवं-प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते चखुत्ति-चक्षः स्वकीयलोचनं तस्य यः प्रभावो-महिमा नीलादिवस्तुग्रहणशक्तिस्तेन रहितो-विकलः पञ्चमः स्तनिकः-आञ्चलिकः कथितः, अयं भावः--उदिते हि सहस्रकिरणे यथा कौशिको | निजचक्षुःप्रभावरहितो भवति,अयं जगत्स्वभावः यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते, यदाह श्रीसिद्धसेनदिवाकरः |-"सद्धर्मवीज." तथा कुपक्षकौशिकसहस्रकिरणे कुपक्षाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषः पल्लविकोऽपि निजचक्षु:-कुश्रद्धानरूपा | कुदृष्टिस्तत्प्रभावरहितो भवति-तस्य स्वमतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, यद्वा कुदृष्टिरेव सुदृष्टिर्भवतीत्येवं स्तनिको भणित इतिगाथार्थः।।५७।। अथायं स्तनिकः कस्मिन् संवत्सरे कस्मिश्च गुरौ विद्यमाने सत्यस्मिन् प्रकरणे भणित इति प्रदर्शनार्थ गाथामाहव्याख्या प्रथमविश्रामोक्ता बोध्या।।५८॥ अथैतत्प्रकरणकर्तनामगर्भितामाशिरभिधायिकां गाथामाह-अत्रापि व्याख्या प्राग्वत्॥५९॥ | इअ कुवावकोसिअसहस्सकिरणमि० अंचलिअमयनिराकरणनामा पंचमो विस्मामो सम्मत्तो॥ खत इति कुपक्षकोशिकसहस्रकिरणे प्रवचनपरीक्षापरनाम्नि स्तनिकनिराकरणः पञ्चमो विश्रामः समाप्त // 46

Loading...

Page Navigation
1 ... 496 497 498