Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 496
________________ श्रीप्रवचनपरीक्षा ५विश्रामे ॥४६२॥ स्तनिकमतशिक्षा MADAINILAILEWAFARIHIRO SmindiatimamerikammummHICIA NILIHATIPATRImmmmHINDE जं जं जेणं जेणं रूवेणं तित्यसम्मयं समए । तं तेण सरूवेणं रीअंतो तित्थममत्थो ॥५१॥ . समये-जैनप्रवचने यद्यवस्तु येन येन रूपेण तीर्थसम्मतं-तीर्थेनाङ्गीकृतं. यथा भाद्रपदसितचतुर्थीपर्युषणा पर्खत्वेनाभ्युपगता | तीर्थेन,तद्वस्तु तेन स्वरूपेण रोचयन-रुचिविषयीकुर्वन् श्रद्दधदित्यर्थः स तीर्थमध्यस्थो भवति-तीर्थान्तर्वी स्यादिति गाथार्थः॥५१॥ अथ सामान्येन तीर्थान्तर्वर्तित्वमभिधाय तीर्थबाह्यत्वं प्रकृतं स्तनिकमधिकृत्य विशेषेणाह-- तित्थाओ विवरीअंधणिअमयं तं धणिअविवरी। एवंपि धम्मपिम्म निकारणकजउप्पत्ती ॥५२॥ तीर्थाद्विपरीतं स्तनिकमतम्-आञ्चलिकमतं 'तंपिति तीर्थमपि स्तनिकविपरीतं-स्तनिकमताद्विपरीतस्वरूपं, चरणप्ररूपणाम्या: मन्योऽन्यं प्रतिपक्षतेवेत्यर्थः, यद्यप्येकप्रतिक्षताभणनेन द्वितीयप्रतिपक्षता सिद्ध्यति तथापि बुधचन्द्रयोरिवैकपाक्षिक्या अपि प्रतिपक्षतायाः संभवात् तन्निरासार्थ उभयप्रतिपक्षता दर्शिता, स्तनिको हि तीर्थच्छायामिच्छन्नेव तीर्थ दूषयति, तीर्थ तु स्तनिकादि| समुदायस्तीर्थप्रतिपक्षभूतो दृष्ट एव संसारवृद्धिहेतुरित्युपदिशति, यदागमः-"जे जिणवयणुत्तिण्णं वयणं मासंति जे उ मण्णंति । सद्दिट्ठीणं तंईसणपि संसारवुढिकरं ॥१॥"ति श्रीविशेषावश्यकभाष्ये। एवमपि परस्परं प्रतिपक्षतायामपि सत्यां यदि धर्मप्रेम| परस्परं धर्मप्रीतिः स्यात्तर्हि निष्कारणकायोत्पत्तिः तन्त्वादिकारणमन्तरेणापि पटादिलक्षणकार्योत्पत्तिः प्रसक्तेति गाथार्थः ।। ५२ ॥ अथ स्तनिकस्य गाथात्रयेण हितमुपदिशन् प्रथमगाथामाहतम्हा तित्थं चइडं तित्थाहिअमभिनिवेस महपावं | चइऊणमण्णउत्थिअतित्थासयणं परं सेअं॥५२॥ यस्मात् तीर्थप्रतिकूलता धर्मविरोधिनी तस्मात्तथाविधकर्मपरिणत्या यदि तीर्थाज्ञा कर्तुमशक्या तथाऽप्ययमुपदेशो-यत्तीर्थ त्यक्त्वा तीर्थाहितं-तीर्थस्य पीडाकारि रोगकल्पमभिनिवेशं महापापं त्यक्त्वा अन्यतीथिकाश्रयणं-शाक्यादिदर्शनावलम्बनं परं-केवलमु ॥४६२॥

Loading...

Page Navigation
1 ... 494 495 496 497 498