Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचनपरीक्षा ५ विश्रामे
॥४४१ ॥
चैत्रादिवृद्धौ च विंशत्या दिनैः, सर्वत्रापि चतुर्मासिकं त्वापाठपूर्णिमायामेव संप्रति तु " अभिवढिअंमि वीसा" इत्यादिवचन| बलेन श्रावण भाद्रपदवृद्धौ चतुर्मासकं श्रावणेऽपि, परमेतत्सर्वजनविरुद्धं, यतस्त्रीण्यपि चतुर्मासकानि कार्त्तिकफाल्गुनाषाढमासनिय - तानि, यत्तु जैनटिप्पनकानुसारेण श्रावण भाद्रवृद्धावपि आषाढवृद्धिरेव गण्यते इति तन्न युक्तं, जैनटिप्पनकस्य व्युच्छिन्नत्वात् संप्रति शैवटिप्पनकेनैव व्यवहारप्रवृत्तिः, तदनङ्गीकारे दीक्षाप्रतिष्ठादिमुहूर्त्तपरिज्ञानं दूरे, मासवृद्धिरपि कथं ज्ञायते १ तस्माच्छ्रावणभाद्रपदवृद्धिर्नाषाढतया व्यवहर्त्तव्या, किंतु श्रावणादितयैवेति, किंच - शतपद्यामपि श्रावणेऽपि चतुर्मासकमिति विचारो नोद्भावितः, तेन ज्ञायते शतपद्यामनुक्तस्यापि प्रवृत्तिराधुनिकैव कियत्कालानन्तरं प्रवृतेति गाथार्थः ॥ २१ ॥ अथ कृतागमशरणस्य स्तनिकस्यागमः शरणमेव न भवतीति दर्शयितुमाह
तित्था अस्स आगमसरणं साहाउ पत्तसरणुव । जं सुत्तत्थु भयंपिय तित्थायत्तं जिर्णिदुत्तं ||२२|| तीर्थात् - श्री वीरप्रवर्त्तिताच्छिनतीर्थाच्च्युतस्य-भ्रष्टस्य नरसिंहस्यागमशरणं शाखातश्युतस्य पत्रशरणवन्न भवति, अयं भावः'स्वाधिरूढशाखाभङ्गान्नहि पत्रमालम्बायाल' मितिन्यायात् स्वाधिरूढशाखातः पततः पुरुषस्य तच्छाखापत्रावलम्बनं त्राणाय न भवति, तथा तीर्थाष्टस्य कुपाक्षिकमात्रस्याप्यागमस्त्राणं न भवति, तत्र हेतुमाह- 'जं सुत्ते 'त्यादि यद् - यस्मात्कारणात् सूत्रार्थोभयमप्यागमस्तीर्थायत्तं तीर्थवशं "प्रवचनं द्वादशाङ्गी तस्याधारः तीर्थमपि प्रवचनं भव्यते" इत्यागमवचनाद्, यद्वा 'प्रवचनं वेश्याधीते वा इति प्राचचनिकः - कालापेक्षया बहूवागम' इत्याद्यागमवचनाच्च द्वादशाह्यादि यावच्छ्रुतं तावत्प्रवचनं भण्यते तच्च तीर्थे एव स्यात् न पुनस्तीर्थवाये कुपाक्षिकादिसमुदाये, एतच्च जिनेंद्रोक्तं- तीर्थकरेण भाषितमिति गाथार्थः || २२ ।। अथ तीर्था
चतुर्थीपर्युषणा
1188211

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498