Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 479
________________ श्रीप्रवचनपरीक्षा ५विश्रामे ||४४५|| तीर्थप्रतिकूलवचनं तीर्थानभिमतप्ररूपणं न तावन्मात्रेण पापहेतुरिति न तीर्थानभिमतप्ररूपणामात्रपातकहेतुः, किंतु ?, अर्हत्प्रसुखा- अर्हद्रणधरादयः सर्वेऽप्यद्य यावत् मूरयोऽर्थापभ्या मृषावदा-मृषाभाषिण इति वदति कुपाक्षिक इति गम्यं, तत्रार्थापत्तिस्त्वेवंयद्यपि तीर्थकरादयो मृषा भाषन्तेइ ति न साक्षाद् ब्रूते तथाऽप्यच्छिन्नं दुष्प्रसभं यावत् त्रैलोक्यस्यापि तीर्थं पूज्यमिति श्रीवीरेण सौधर्मादिभिश्व भाषितं तच तेषामरुचिविषयोऽर्थापत्या तीर्थकरवचस्यैवेयमरुचिः, कथं तीर्थकृता वीरेणैतादृशं तीर्थ पूज्यतयोक्तमित्यादिरूपा, सा च तीर्थकरादीनां मृषाभाषित्वसूचिका बोध्या, तच्च महापातकं, ततोऽपि च प्रतिममयं अयं पापस्तीर्थोच्छेदं प्रतीच्छति, ततस्तन्दुलमत्स्यत्रदिच्छा - तदभिलाषः प्रतिसमयमनन्तभवजनिका - प्रतिसमयं अनन्त कालपरिभ्रमण हेतु बीजभूतं कर्म कुपाक्षिको बध्नाति न चेदनुपपत्तिकं शतवर्षजीविनोऽप्यायुरसंख्येयममयात्मकं भवति, तादृशोऽप्युत्सूत्र भाषी नियमादाशातनाब हुलोऽनन्तानन्तगुणा अप्युत्सर्पिव्यवसर्पिणीः परिभ्रमति चातुर्गतिसंसारे, ताश्च विभज्यमानाः प्रतिममयमनन्ता अप्यायान्ति तत्रापि यस्तन्मतासक्तः क्रियावान् स विशेषतस्तथा बोध्य इतिगाथायुग्मार्थः ||२९|| ||३०|| अथ लौकिक मिथ्यादृगपेक्षया की हग् स्यादित्याह -- तेणेवाभिनिवेसी अनंत गुणसंकिलिट्टपरिणामो । लोइअभिच्छ ओ अफासणिज्जो अ मधेसि ||३१|| येन कारणेन प्रागुक्तं तेनैव कारणेनाभिनिवेशी -कुपाक्षिको लौकिक मिध्यात्वाद् - हरिहरादिश्रद्धावतः सकाशादनन्तगुणसंक्लिष्टपरिणामो - मिथ्यात्वबन्धमधिकृत्य महादुष्टपरिणामः, प्रतिसमयं तीर्थहान्यन्वेषणाद्भावतस्तीर्थोच्छेद पातकार्जनात् सर्वेषामास्तामाईतानामन्यतीर्थिकानां चोऽप्यर्थे लौकिक मिथ्यादृशामप्यस्पृश्यः, यतो लौकिकमिध्यात्वं वत्सनागविषकल्पं तच्च मन्त्राद्युपचारेण सुखसाध्यम्, अभिनिवेशमिध्यात्वं तु तालपुट विषकल्पमुपायशतैरप्यसाध्यम्, अनस्तत्स्पर्शात् कदा चिल्लौकिकमिध्यात्वं परित्यज्य चतुर्थी पर्युषणा ।।४४५ ।।

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498