Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचनपरीक्षा
५ विश्रामे
॥४४२॥
यत्तत्वमेव समर्थयति-
इह आगमो अतिविहो अत्तानंतर परंपरापुवो। दो गणहरसीसंता तहओ तित्थप्पविततो ॥२३॥
इह-प्रवचने आगमस्त्रिविधः - आत्मानन्तरपरंपरापूर्वः, आत्मा चानन्तरं च परम्परा चेतिशब्दाः पूर्वं यस्य स तथा, आत्मागमोऽनन्तरागमः परंपरागमश्चेतिभावः, यदागमः - " अहवा आगमे तिविहे पं० तं०-अत्तागमे अनंतरागमे परंपरागमे " इति श्रीअनुयोगद्वारे, तत्राद्यौ द्वौ गणधरशिष्यान्तौ, सुधर्मजम्बूस्वाम्यन्तावित्यर्थः, तृतीयस्तु तीर्थप्रवृत्यन्तो - यावतीर्थानुयायीति | गाथार्थः || २३ || अथ संप्रत्यागमः कीदृगित्याह
संपइ तइओ आगम तित्थदुमसू रिसाह कुसुमसमो । फलसरिसो सुहजोगो मोक्खो महुरो रसासाओ ||२४||
- संप्रति-वर्त्तमानकाले तृतीय आगमः- परम्परागमलक्षणो वर्त्तते, न पुनरात्मागमानन्तरागमलक्षणौ, तयोर्म्युच्छिन्नत्वात्, स च | तीर्थद्रुमन रिशाखा कुसुमसमः - तीर्थलक्षणो यो द्रुमः - कल्पवृक्षादिलक्षणः तत्र सूरिलक्षणा शाखा तत्र कुसुमसमः - पुष्पसमानः, फल| सदृशो यस्तस्माच्छुभयोगः - मनः प्रभृतीनां शुभव्यापारः, मनसोऽशुभव्यापारे प्रवर्त्तनं श्रुतमेव निगृह्णाति, यदागमः - "पहावंतं निगि| हामि, सुअरस्सीसमाहिअं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज ॥ १ ॥ त्ति श्रीउत्तरा० (८७०) मधुरः फला (रसा) स्वादो मोक्षः, मधुरफला (रसा) स्वादकल्पो मोक्ष इत्यर्थः, तत्र यथा वृक्षमन्तरेण न शाखासंभवः, शाखामन्तरेण च न कुसुमोत्पत्तिः, तदभावाच्च न फलं, फलाभावात्कुतो मधुररसास्वादः १, तथा तीर्थमन्तरेण न सूरिः, यतः पञ्च वस्तु के - "परम्परागतः सूरिः स्वशिष्यं प्रति सम्यगुद्देशादिविधिना सिद्धान्तमध्याप्य पुस्तकेष्वलिखितं सूरिमन्त्रं ददातीत्युक्तमस्ति मूरिमन्तरेण च परम्परागमलक्षणस्तृतीय
चतुर्थीपर्युषणा
॥४४२ ॥

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498