Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 443
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥४०९॥ लोचना२ऽष्टमतपो३ लोचट सांवत्सरिकप्रतिक्रमण५ लक्षणानि पञ्च कृत्यानि नियतानि, तान्यधिकृत्य प्रथमो भाद्रपदो नपुंसक- अयथास्थावदसमर्थः, नपुंसकत्वं च ज्योतिविंदां प्रतीतमेव, यदुक्तं-"यात्राविवाहमण्डनमन्यान्यपि शोभनानि कर्माणि । परिहर्त्तव्यानि बुधैः, नोत्सूत्रं सर्वाणि नपुंसके मासि ॥१॥" इति, तस्मात्सर्वोत्तमो द्वितीय एव भाद्रपदोऽधिकर्तव्यः, एवमष्टम्यादयस्तिथयः कार्तिकादयश्च मा|सा अपि योजनीया इति गाथार्थः ॥२०८।। अथ परोक्तमुपहास्यवचनमुद्भाव्य दषयितुं गाथायुग्ममाह| एएणहिए मासे पुण्णापुण्णायवच्चमच्चुछुहं । तह लगभलाहु लोए न होड किंजेण सो कीवो? ॥२०९॥ एवमुवहासवयणं नगिणस्म वलंकिअंपि पड़ पुरिसं। जं चाउमासपमुहे निअगलपासंपि न मुणेइ ।।२१०॥ एतेन-प्रागुतप्रकारेणाधिके मासे पुण्यं-दानादिलक्षणमपुण्यं-हिंसादिलक्षणं पापम् आदिशब्दात तज्जन्यं कार्यम्वर्गादिलक्षण-IN मपत्यं-गर्भधरणप्रसवादिलक्षणं मृत्युः-पश्चत्वं क्षुधा उपलक्षणात्तृषादिपरिग्रहः, पुण्यं चापुण्यं चादिर्यस्य पूजादेस्तत्पुण्यापुण्यादि नचापत्यं च मृत्युश्च क्षुधा चेति समाहारद्वन्द्वः, तथा लभ्यलाभो लोके किं न भवति ? येन सोभिवद्भुितो मासः क्लीबो भण्यते, उपलक्षणारिक समासः काकेन भक्षित इत्येवमुपहास्यवचनं ननस्यालङ्कतं-वस्त्राभरणादिभिः सर्वाङ्गविभूषितमपि पुरुष प्रतीव बोध्यं, यथाहि कश्चिद्भूतात्तों विवस्त्रीभ्य परिभ्रमन् विभूषितमपि पुरुषमुपहसति तथाऽयमपीति, भूतातत्वे हेतुमाह-'जं चाउत्ति यद्| यस्मात् चातुर्मासकप्रमुखे-चातुर्मासकसांवत्सरिककृत्येषु निजगलपाशमपि न जानातीत्यक्षरार्थः.भावार्थस्त्वयम्-अत्र कश्चिच्छ्राच|णिकोऽतिवाचालतया व्रते-ननु भो अधिको मासः किं काकेन भक्षितः किं वा तस्मिन् मासे साधुदानजिनपूजादिकृत्यजन्यं पुण्यं न भवति उन हिंसाद्याश्रवसेवातः पातकं न भवति उत गर्भाधानप्रसवादि न भवत्यथवा ऋणाद्यसंभवः किं वा तन्मासे बुभुक्षा ४ .९॥

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498