________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४०९॥
लोचना२ऽष्टमतपो३ लोचट सांवत्सरिकप्रतिक्रमण५ लक्षणानि पञ्च कृत्यानि नियतानि, तान्यधिकृत्य प्रथमो भाद्रपदो नपुंसक- अयथास्थावदसमर्थः, नपुंसकत्वं च ज्योतिविंदां प्रतीतमेव, यदुक्तं-"यात्राविवाहमण्डनमन्यान्यपि शोभनानि कर्माणि । परिहर्त्तव्यानि बुधैः, नोत्सूत्रं सर्वाणि नपुंसके मासि ॥१॥" इति, तस्मात्सर्वोत्तमो द्वितीय एव भाद्रपदोऽधिकर्तव्यः, एवमष्टम्यादयस्तिथयः कार्तिकादयश्च मा|सा अपि योजनीया इति गाथार्थः ॥२०८।। अथ परोक्तमुपहास्यवचनमुद्भाव्य दषयितुं गाथायुग्ममाह| एएणहिए मासे पुण्णापुण्णायवच्चमच्चुछुहं । तह लगभलाहु लोए न होड किंजेण सो कीवो? ॥२०९॥ एवमुवहासवयणं नगिणस्म वलंकिअंपि पड़ पुरिसं। जं चाउमासपमुहे निअगलपासंपि न मुणेइ ।।२१०॥
एतेन-प्रागुतप्रकारेणाधिके मासे पुण्यं-दानादिलक्षणमपुण्यं-हिंसादिलक्षणं पापम् आदिशब्दात तज्जन्यं कार्यम्वर्गादिलक्षण-IN मपत्यं-गर्भधरणप्रसवादिलक्षणं मृत्युः-पश्चत्वं क्षुधा उपलक्षणात्तृषादिपरिग्रहः, पुण्यं चापुण्यं चादिर्यस्य पूजादेस्तत्पुण्यापुण्यादि नचापत्यं च मृत्युश्च क्षुधा चेति समाहारद्वन्द्वः, तथा लभ्यलाभो लोके किं न भवति ? येन सोभिवद्भुितो मासः क्लीबो भण्यते, उपलक्षणारिक समासः काकेन भक्षित इत्येवमुपहास्यवचनं ननस्यालङ्कतं-वस्त्राभरणादिभिः सर्वाङ्गविभूषितमपि पुरुष प्रतीव बोध्यं, यथाहि कश्चिद्भूतात्तों विवस्त्रीभ्य परिभ्रमन् विभूषितमपि पुरुषमुपहसति तथाऽयमपीति, भूतातत्वे हेतुमाह-'जं चाउत्ति यद्| यस्मात् चातुर्मासकप्रमुखे-चातुर्मासकसांवत्सरिककृत्येषु निजगलपाशमपि न जानातीत्यक्षरार्थः.भावार्थस्त्वयम्-अत्र कश्चिच्छ्राच|णिकोऽतिवाचालतया व्रते-ननु भो अधिको मासः किं काकेन भक्षितः किं वा तस्मिन् मासे साधुदानजिनपूजादिकृत्यजन्यं पुण्यं न भवति उन हिंसाद्याश्रवसेवातः पातकं न भवति उत गर्भाधानप्रसवादि न भवत्यथवा ऋणाद्यसंभवः किं वा तन्मासे बुभुक्षा ४
.९॥