Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 469
________________ मुखपोतिकासिद्धिः श्रीप्रवचनपरीक्षा ४विश्रामे ॥४३५॥ | तदयुक्तम् , अनुपदिष्टस्यासिद्धत्वात् , तथाहि-यद्यप्युपासकशाङ्गादौ नोपदिष्टं सम्प्रति न उपलभ्यते तथाऽप्यनुयोगद्वारे तदुपदिष्टं, तथाहि-जं इमं समणो वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मण" इत्यादि वच इहापि बोध्यं, उपधानादिपाठवत्, तथाविधपाठस्यापि व्युच्छिन्नत्वात् , एवं यावत् सुभद्राश्राविकानिदर्शनतश्च श्रावकस्य विधेयतया प्रतिपत्तव्यमिति पश्चाशकवृत्ती, अत्र व्यक्तमेव नामग्राहेण साधनामिव श्रावकाणामपि मुखवत्रिका आवश्यकक्रियोपयोगिनी भणितेति गाथार्थः ॥१४॥ अथ ग्रन्थान्तरसम्मतिमाह तह पहावागरणे संवरदारंमि आइमे पूआ। मुहर्णतयपमुहेहि मडूढाणमणेमणाहेऊ ॥१५॥ नथा प्रश्नव्याकरणे-प्रश्नव्याकरणनाम्नि दशमाङ्गे आदिमे-प्रथमे संवरद्वारे मुखानन्तकप्रमुखैः-मुखवत्रिकाजपमालिकाप्रमुखैः श्राद्धानां-श्रावकाणां पूजाऽनेषणाहेतुः साधोर्भवतीति भणितमिति बोध्यं,यथा भणितं तथा चाह-"नवि वंदणमाणणपूअणाए मि| क्खं गवेसविअवं"ति श्रीप्रश्नव्याकरणाङ्गे प्रथमसंबरद्वारे, एतद्वृत्त्येकदेशो यथा-'नवी' त्यादि मैक्षं-भिक्षासमूहो गवेषयितव्यम् - | अन्वेषणीयं नापि बन्दनेन-स्तवनेन यथा “सो एसो जस्स गुणा विअरंति अवारिआ दस दिसासुं। इअरा कहासु सुखसि पचखं अन्ज दिहोसि॥१॥"त्ति, नापि माननया-आसनदानादिप्रतिपच्या नापि पूजनया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवखिकानमस्कारमालिकादानलक्षणया" इत्यत्र यदि श्रावकाणां मुखवत्रिकाया अनुपयोगो भवेत्तर्हि तहानेन तदावजनार्थ पूजाऽपि न भवेदिति स्वयमेव पर्यालोच्यमिति गाथार्थः ॥१५॥ अथ मुखवत्रिकाप्रतिषेधनानन्तरं स्तनिकेन किं प्रतिषिद्वमित्याहउवगरणे पडिसिद्धे पडिसिद्धं सावयाण पडिकमणं । विवरीअं पडिसेहं केइवि यहुकालअंतरिअं ॥१६॥ ॥४३५॥

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498