________________
मुखपोतिकासिद्धिः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४३५॥
| तदयुक्तम् , अनुपदिष्टस्यासिद्धत्वात् , तथाहि-यद्यप्युपासकशाङ्गादौ नोपदिष्टं सम्प्रति न उपलभ्यते तथाऽप्यनुयोगद्वारे तदुपदिष्टं, तथाहि-जं इमं समणो वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मण" इत्यादि वच इहापि बोध्यं, उपधानादिपाठवत्, तथाविधपाठस्यापि व्युच्छिन्नत्वात् , एवं यावत् सुभद्राश्राविकानिदर्शनतश्च श्रावकस्य विधेयतया प्रतिपत्तव्यमिति पश्चाशकवृत्ती, अत्र व्यक्तमेव नामग्राहेण साधनामिव श्रावकाणामपि मुखवत्रिका आवश्यकक्रियोपयोगिनी भणितेति गाथार्थः ॥१४॥ अथ ग्रन्थान्तरसम्मतिमाह
तह पहावागरणे संवरदारंमि आइमे पूआ। मुहर्णतयपमुहेहि मडूढाणमणेमणाहेऊ ॥१५॥ नथा प्रश्नव्याकरणे-प्रश्नव्याकरणनाम्नि दशमाङ्गे आदिमे-प्रथमे संवरद्वारे मुखानन्तकप्रमुखैः-मुखवत्रिकाजपमालिकाप्रमुखैः श्राद्धानां-श्रावकाणां पूजाऽनेषणाहेतुः साधोर्भवतीति भणितमिति बोध्यं,यथा भणितं तथा चाह-"नवि वंदणमाणणपूअणाए मि| क्खं गवेसविअवं"ति श्रीप्रश्नव्याकरणाङ्गे प्रथमसंबरद्वारे, एतद्वृत्त्येकदेशो यथा-'नवी' त्यादि मैक्षं-भिक्षासमूहो गवेषयितव्यम् - | अन्वेषणीयं नापि बन्दनेन-स्तवनेन यथा “सो एसो जस्स गुणा विअरंति अवारिआ दस दिसासुं। इअरा कहासु सुखसि पचखं अन्ज दिहोसि॥१॥"त्ति, नापि माननया-आसनदानादिप्रतिपच्या नापि पूजनया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवखिकानमस्कारमालिकादानलक्षणया" इत्यत्र यदि श्रावकाणां मुखवत्रिकाया अनुपयोगो भवेत्तर्हि तहानेन तदावजनार्थ पूजाऽपि न भवेदिति स्वयमेव पर्यालोच्यमिति गाथार्थः ॥१५॥ अथ मुखवत्रिकाप्रतिषेधनानन्तरं स्तनिकेन किं प्रतिषिद्वमित्याहउवगरणे पडिसिद्धे पडिसिद्धं सावयाण पडिकमणं । विवरीअं पडिसेहं केइवि यहुकालअंतरिअं ॥१६॥
॥४३५॥