SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ मुखपोतिकासिद्धिः श्रीप्रवचनपरीक्षा ४विथामे ॥४३४॥ | यथा लिङ्गाचारपरित्यक्तः साधुर्व्यवहारनये साधुन भवति, तत्र लिङ्गं रजोहरणादि आचारस्तु प्रतिलेखनप्रतिक्रमणादिनियतक्रियारूपस्ताभ्यां परित्यक्तः-शून्यः अन्तर्वृत्त्या कृतमहावतोचारोऽपि गृहलिङ्गी-गृहोचितव्यापाररहितोऽपि साध्वनुष्ठानरहितो न माधुव्यपदेशभाक स्याद् , एवमनन्यगत्या व्यवहारतः सामायिकव्यञ्जकं रजोहरणादिलिङ्गमेव, तच्च सशिखशिरप्रभृतिषु चिह्वेषु | सत्सु कथश्चित्साध्वनुकृतिमात्रमेव मन्यते, न पुनः सर्वथेति युक्त्या स्फुटं यथा स्यात्तथा सिद्धा मुखवस्त्रिका श्रावकादीनामपि | सामायिकादिक्रियासाधनोपयोगिनीतिगाथार्थः॥३॥ अथागमानुयायियुक्तिसिद्धामपि मुखवस्विकां मुग्धजनप्रत्यायनार्थ नामग्राहेणापि सिद्धान्तसिद्धां दर्शयितुमाहउवगरणे पुण तुलं भणि समणेहिं मावयाणपि । अणुओगाइसु आवस्सयकिरिआसाहणंमि फुडं ॥१४॥ | अनुयोगादिषु-अनुयोगहारपश्चाशकवृत्यादिष्वावश्यकक्रियासाधने-उभयसंध्यप्रतिक्रमणादिक्रियाकरणे स्फुटं यथा स्यातथा श्रावकाणामप्युपकरण-रजोहरणादिकं श्रमणैः-साधुमिस्तुल्यं-समानं भणितं,तथाहि-"किन्तं लोउत्तरिअंभावावस्सयं ?,२ णं समणो वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तदज्झवसाणे तदप्पिअकरणे अण्णत्थ कत्थइ मणं अकुछमाणे उभयकालं आवस्सयं करिति"त्ति श्रीअनुयोगसूत्रम् ,एतवृत्येकदेशो यथा-'तदपितकरणःकरणानि-त| साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्-आवश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि येन,सर्वथा सम्यग् यथास्थानन्यस्तोपकरण इत्यर्थः इति श्रीअनुयोगद्वारवृत्तिः,तथा "तस्साहणे जाणि सरीररओहरणमुहणंतगादिआणि दवाणि ताणि किरिश्राकरणतणओ अप्पिाणित्ति" अनुयोगचूर्णी, तथा यदुक्तम् - "उपासकदशाङ्गादावनुक्तत्वाच्छावकाणामावश्यकमयुक्तमिति PrimmIIRHIDIMPRINTIBIHBPIRITUALIMITRAPAIRRITALIRITAMITRIMURDUNIRAULA ४॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy