Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रव
ईर्यापाथि. काविचारः
चनपरीक्षा ४विश्रामे ॥२३॥
पुण उवएसविमानन्तरं पुनरुपदेशावास्यां द्विविकल्पमित
एवम्-अमुना प्रकारणायथास्थानं क्रियाविषयं तृतीयमुत्सूत्रं दर्शितम् , एतस्मिन् दर्शिते क्रियाविषयं त्रिविधमवि-अधिकन्यू- नायथास्थानलक्षणं त्रिप्रकारमप्युत्सूत्रं निर्दिष्टं-यथोद्देशं प्रदर्शितमिति गाथार्थः ॥२२९।। अथ मौलं द्वितीयविकल्पमाहअह पुण उवएसविसयमुस्सुतं बीअमेव दुविगप्पं । उम्मग्गदेसणा मग्गनासणा तंपि दंसेमि ॥२३॥
अथेति क्रियाविषयकोत्सूत्रानन्तरं पुनरुपदेशविषयमुत्सूत्रं द्वितीयमपि द्विविकल्प-विकल्पद्वयभाग्, तत्रोन्मार्गदेशनात् मार्गनाशनाच, चकारो गम्यः, उन्मार्गदेशनामार्गनाशनाभ्यां द्विविकल्पमित्यर्थः, यद्भवति तदपि दर्शयामीति गाथार्थः ।। २३० ।। अथोक्तमेव व्यक्तीकरोति
अहिअं उवएसंतो पढमे भंगे अऊणमावि बीए । किरिआओऽणंतगुणं पावयरं वयणविसयं तं ॥२३॥
अधिक-पट्कल्याणकादि प्रागुक्तमुपदिशन्-प्ररूपयन् प्रथमे भङ्गे-उन्मार्गदेशनालक्षणे, वर्त्तते इति गम्यं, ऊनमपि-स्त्रीजिन| पूजानिपेधादिकमपि प्ररूपयन् द्वितीयमले इत्येतच्चोत्सूत्रं क्रियातः-क्रियाविषयोत्सूत्रादनन्तगुणम् , अनन्तपापहेतुत्वात् , सर्वेष्वपि दोषेषु भाषादोषो हि व्यापकः, यदाहुः-"एकत्रासत्यजं पापं, पापं निःशेषमेकतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१॥" इति योग वृ०, अत एव पापतरम्-अतिपापरूपं वचनविषयं तत्, सम्यक्त्वप्राप्तावुत्कृष्टकालान्तरप्राप्तिहेतुत्वाद् , यदागमः| "कालमर्णतं च सुए अद्धापरिअडओ अ देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई ॥१॥ इति श्रीआव०,अत्राशातनाबहुलस्तावदुन्मार्गप्ररूपको मार्गनाशकच ग्राह्यः, तस्यैव तीर्थोच्छेदपातकलिप्तत्वेनाशातनाबहुलत्वादिति गाथार्थः ॥ २३१ ॥ अथ | प्रकारान्तरेणाप्युन्मार्गप्ररूपणाद्याह

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498