SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव ईर्यापाथि. काविचारः चनपरीक्षा ४विश्रामे ॥२३॥ पुण उवएसविमानन्तरं पुनरुपदेशावास्यां द्विविकल्पमित एवम्-अमुना प्रकारणायथास्थानं क्रियाविषयं तृतीयमुत्सूत्रं दर्शितम् , एतस्मिन् दर्शिते क्रियाविषयं त्रिविधमवि-अधिकन्यू- नायथास्थानलक्षणं त्रिप्रकारमप्युत्सूत्रं निर्दिष्टं-यथोद्देशं प्रदर्शितमिति गाथार्थः ॥२२९।। अथ मौलं द्वितीयविकल्पमाहअह पुण उवएसविसयमुस्सुतं बीअमेव दुविगप्पं । उम्मग्गदेसणा मग्गनासणा तंपि दंसेमि ॥२३॥ अथेति क्रियाविषयकोत्सूत्रानन्तरं पुनरुपदेशविषयमुत्सूत्रं द्वितीयमपि द्विविकल्प-विकल्पद्वयभाग्, तत्रोन्मार्गदेशनात् मार्गनाशनाच, चकारो गम्यः, उन्मार्गदेशनामार्गनाशनाभ्यां द्विविकल्पमित्यर्थः, यद्भवति तदपि दर्शयामीति गाथार्थः ।। २३० ।। अथोक्तमेव व्यक्तीकरोति अहिअं उवएसंतो पढमे भंगे अऊणमावि बीए । किरिआओऽणंतगुणं पावयरं वयणविसयं तं ॥२३॥ अधिक-पट्कल्याणकादि प्रागुक्तमुपदिशन्-प्ररूपयन् प्रथमे भङ्गे-उन्मार्गदेशनालक्षणे, वर्त्तते इति गम्यं, ऊनमपि-स्त्रीजिन| पूजानिपेधादिकमपि प्ररूपयन् द्वितीयमले इत्येतच्चोत्सूत्रं क्रियातः-क्रियाविषयोत्सूत्रादनन्तगुणम् , अनन्तपापहेतुत्वात् , सर्वेष्वपि दोषेषु भाषादोषो हि व्यापकः, यदाहुः-"एकत्रासत्यजं पापं, पापं निःशेषमेकतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१॥" इति योग वृ०, अत एव पापतरम्-अतिपापरूपं वचनविषयं तत्, सम्यक्त्वप्राप्तावुत्कृष्टकालान्तरप्राप्तिहेतुत्वाद् , यदागमः| "कालमर्णतं च सुए अद्धापरिअडओ अ देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई ॥१॥ इति श्रीआव०,अत्राशातनाबहुलस्तावदुन्मार्गप्ररूपको मार्गनाशकच ग्राह्यः, तस्यैव तीर्थोच्छेदपातकलिप्तत्वेनाशातनाबहुलत्वादिति गाथार्थः ॥ २३१ ॥ अथ | प्रकारान्तरेणाप्युन्मार्गप्ररूपणाद्याह
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy