________________
र्यापाथिकाविचारः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४२२॥
तम्हा पढमा पढिअकप्पा कप्पदुमोवमा इरिआ। सा पुण पच्छाइरिआ गमणनिवित्तीअ पडिकमणं ॥२२७॥ । यस्मात्पूर्वोक्तं तस्मात् प्रथमा ईर्याप्रतिक्रान्तिः पौषधाधशेषानुष्ठानसाधारणपीठिकाकल्पा कल्पद्रुमोपमा क्रियाणां साधिका, या पुनः पश्चादीर्या "पच्छा इरिआवहिआए पडिक्कमईत्ति पदमात्रगम्या तत्र्याया अर्थों गमनं तस्याः प्रतिक्रमणं-निवृत्तिरीर्याप्रतिक्रान्तिः मार्गादौ गमनागमनक्रियानिवृत्तिरूपोऽर्थः संपन्नः, तत्राप्यधिकारवशात् कचिच्चित्तशुद्धिहेत्वीर्याप्रतिक्रान्तिपूर्विकैव मार्गमन्तव्यक्रियानिवृत्तिः क्वचिच्च गमनागमनादिपरिणतिरहितस्य कृतसामायिकस्य गन्तव्यक्रियानिवृत्तिमात्रमेव, अत्रापि युक्तिरीर्यापथषदविंशिकातो ज्ञेयेतिगाथार्थः ॥२२७।। अथापेक्षया न्यूनाधिकस्वभावमप्ययथास्थानं यत्तदाह| जइवि मुपासे निफणा नव पासे ऊणमहिअमवि कमसो। तहवि सुपासा पासेठवणं अजहापयपि भवे।।२२८।। । यद्यपि सुपार्श्व तिस्रः फणाः ऊनमुत्सूत्रं, यतः सुपार्श्वे पश्चैव फणा भवन्ति, पार्श्व-पार्श्वनाथे नव फणाः, अधिकमुत्सूत्रं, यतः | श्रीपाश्वनाथस्य सप्तव फणा भवन्ति,यतः-"एकदण्डानि सप्त स्युर्यदिच्छत्राणि पर्वते। तदोपमीयते पार्श्वमूर्ध्नि सप्तफणः फणी॥१॥ इति वाग्भट्टालकारे,तथापि श्रीसुपार्श्वसकाशात फणाद्वयमुपादाय श्रीपार्श्वनाथशिरसि योजयतोऽयथास्थानमपि स्याद् ,एतञ्च जिनदत्तेनैव दिगम्बरेण प्रतिमानां नमत्वकरणमिव मतभेदकरणाय प्ररूपितम् ,अत एव स्वर्णगिरौ पित्तलमय्यां श्रीपार्श्वनाथप्रतिमायां जीर्णाया नवीनफणाद्वयनियोजन विहितं सम्प्रत्यपि दृश्यते, संशये गत्वा विलोकनीयमिति गाथार्थः ।। २२८ ॥ अथ क्रियाविषयोत्सूत्रस्य निगमनमाह
एवं अजहट्टाणं उस्सुत्तं इंसि समासेण। एअं सुत्ते किरिआविसयं तिविहंपि निट्टि ॥२२९॥
TRANS MINSAHIMIRTICTIONA manaANIASIRE
Maims