Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रव- चनपरीक्षा ४विश्रामे ॥४३२॥
मुखपोति| कासिद्धिः
R
मुखवस्त्रिका यतीनां लिङ्गं तच्च श्रावकाणां नो युक्तम्-उचितं भवेदिति तद्वचनमितिगाथार्थः ॥९॥ अथातिप्रसङ्गन दूषयितुमाह-- पोत्तिअमित्तण जइ लिंग किं नाम नेह सामइए ।समणो इवत्ति समए भणिओवि जओजिणिंदेहि ॥१०॥
पोत्तिका-मुखवस्त्रिका तन्मात्रेण यदि लिङ्ग यतीनां-साधूनां लिङ्गं वा, नामेति कोमलामन्त्रणे, किम् ?-इह-जगति प्रबचने वा सामायिके न स्यात्?, तत्र तु सुतरां स्यादित्यर्थः,तत्र हेतुमाह-'समणेत्यादि, यतः कारणात् समये-सिद्धान्ते जिनेन्द्रैःश्रमण इवेति-श्रावकः श्रमण इव सामायिके भणितोऽपि, अयं भावः-मुखवत्रिकामात्रेण यदि श्रावकः श्रथणलिङ्गीस्यातर्हि तीर्थकरैः सामायिके श्रमण इव श्रावको भणितः, तच्च तन्मते न युक्तम् , अतः सामायिकमपि परिहरणीयं स्याद् यतिसमताभवनहेतुत्वादितिगाथार्थः ॥१०॥ अथ श्रावकसामायिकं घटिकाद्वयप्रमाणं, तच्च साधुभिर्नाङ्गीकृतमतो न यतिसमतेति निराकर्तुमाह--
मुणिजणअंगीकरणा लिङ्गं जइ सुद्धसहहणमाई । अब्भतरमवि बज्झं अरिहनमुक्कारमाईणि ॥११॥ अत्र यथा श्रावकाणां सामायिकमल्पकालीनं न साधुसमतासूचकं तथा मुखवस्विकादिग्रहणमपि यावत्सामायिकादिक्रियोपयोगि स्वल्पकालीनमेवेति कथं साधुसमतामूचकमिति सत्यामपि प्रतिबन्यां युक्त्यन्तरमाह-'मुणि'त्ति मुनिजनाङ्गीकरणाद्यदि लिङ्गमर्थात् मुखपोतिका, तहीति गम्यं, शुद्धश्रद्धानाद्याभ्यन्तरमपि पुनर्वाह्यमहन्नमस्कारादीनि यतिमिर्यावजीवमङ्गीकृतानि तथैव श्रावकैरपीति तवाभिप्रायेण साधुसन्ता श्रावकाणां नोचितेति श्रावकैस्तान्यपि परिहर्त्तव्यानि भवेयुरिति गाथार्थः ॥११॥ अथ श्राबकाणां सामायिकमभ्युपगच्छता स्तनिकेनावश्यं मुखवत्रिकाऽभ्युपगन्तव्येत्यत्र युक्तिमाहसामाइअंमि उ कए समणो इव सावओ हवह जम्हा । इअवयणा मुणिलिंग कहंचि न विरुद्धमिह समए।॥१२॥
animatiPARAN
॥४३२॥

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498