________________
श्रीप्रव- चनपरीक्षा ४विश्रामे ॥४३२॥
मुखपोति| कासिद्धिः
R
मुखवस्त्रिका यतीनां लिङ्गं तच्च श्रावकाणां नो युक्तम्-उचितं भवेदिति तद्वचनमितिगाथार्थः ॥९॥ अथातिप्रसङ्गन दूषयितुमाह-- पोत्तिअमित्तण जइ लिंग किं नाम नेह सामइए ।समणो इवत्ति समए भणिओवि जओजिणिंदेहि ॥१०॥
पोत्तिका-मुखवस्त्रिका तन्मात्रेण यदि लिङ्ग यतीनां-साधूनां लिङ्गं वा, नामेति कोमलामन्त्रणे, किम् ?-इह-जगति प्रबचने वा सामायिके न स्यात्?, तत्र तु सुतरां स्यादित्यर्थः,तत्र हेतुमाह-'समणेत्यादि, यतः कारणात् समये-सिद्धान्ते जिनेन्द्रैःश्रमण इवेति-श्रावकः श्रमण इव सामायिके भणितोऽपि, अयं भावः-मुखवत्रिकामात्रेण यदि श्रावकः श्रथणलिङ्गीस्यातर्हि तीर्थकरैः सामायिके श्रमण इव श्रावको भणितः, तच्च तन्मते न युक्तम् , अतः सामायिकमपि परिहरणीयं स्याद् यतिसमताभवनहेतुत्वादितिगाथार्थः ॥१०॥ अथ श्रावकसामायिकं घटिकाद्वयप्रमाणं, तच्च साधुभिर्नाङ्गीकृतमतो न यतिसमतेति निराकर्तुमाह--
मुणिजणअंगीकरणा लिङ्गं जइ सुद्धसहहणमाई । अब्भतरमवि बज्झं अरिहनमुक्कारमाईणि ॥११॥ अत्र यथा श्रावकाणां सामायिकमल्पकालीनं न साधुसमतासूचकं तथा मुखवस्विकादिग्रहणमपि यावत्सामायिकादिक्रियोपयोगि स्वल्पकालीनमेवेति कथं साधुसमतामूचकमिति सत्यामपि प्रतिबन्यां युक्त्यन्तरमाह-'मुणि'त्ति मुनिजनाङ्गीकरणाद्यदि लिङ्गमर्थात् मुखपोतिका, तहीति गम्यं, शुद्धश्रद्धानाद्याभ्यन्तरमपि पुनर्वाह्यमहन्नमस्कारादीनि यतिमिर्यावजीवमङ्गीकृतानि तथैव श्रावकैरपीति तवाभिप्रायेण साधुसन्ता श्रावकाणां नोचितेति श्रावकैस्तान्यपि परिहर्त्तव्यानि भवेयुरिति गाथार्थः ॥११॥ अथ श्राबकाणां सामायिकमभ्युपगच्छता स्तनिकेनावश्यं मुखवत्रिकाऽभ्युपगन्तव्येत्यत्र युक्तिमाहसामाइअंमि उ कए समणो इव सावओ हवह जम्हा । इअवयणा मुणिलिंग कहंचि न विरुद्धमिह समए।॥१२॥
animatiPARAN
॥४३२॥