Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
||४२६॥
कारिवचो न वक्तव्यमिति गाथार्थः || २३४|| अथ गाथायुग्मेनोपसंहारमाह-
जम्हा उ संकिलिट्ठोऽभिनिवेसी होइ तित्थपडिकूले । लोओ उ भणड़ तित्थं तिथं खलु तित्थअनुकूलो ||२३५|| | तेणं तब्भवसिद्धी लभइ परतित्थिएसु न वियऽवत्ते । इअ मुणिअ हुंतु भवा भद्दपया तित्थभत्तिवया ॥ २३६ ॥
यस्मादभिनिवेशी-कुपाक्षिकः संक्लिष्टः- निक्लिष्टपरिणामवान् तीर्थप्रतिकूलः- तीर्थाहितप्रवृत्तिमान् प्रागुक्तयुक्त्या भवति, लोकस्तु - बौद्धादिस्तु खलुरवधारणे तीर्थमेव - जैनमार्गमेव तीर्थं - जैनमार्गं भणति तीर्थानुकूलो - वचसा सम्यग्भाषमाणस्तीर्थानुकूलप्रवृ| त्तिमान् भवति, तेन कारणेन तद्भवसिद्धिः, अपेर्गम्यत्वात् तद्भवसिद्धिरपि - चरमशरीर्यपि लभ्यतेऽन्यतीर्थिकेषु यतोऽन्यतीर्थिका | उत्कर्षतो दश सिद्ध्यन्त्येकस्मिन् समये, यदुक्तं - "सिज्झइ गिहिअन्नसलिंग चउद्दसहाहिअसयं च'त्ति, न चाव्यक्ते- कुपाक्षिकवर्गे | चरमशरीरी स्याद्, अयं भावः - अन्यतीर्थिको हि जैनमार्गश्रद्धानभाग् तद्भवसिद्धिकोऽपि स्यात्, किं तु तथाविधयोग्यतावशात् | कश्चिदेकव्यादिभवसिद्धिकोऽपि भवेत्, तस्य जैनमार्ग जैनमार्गतया ब्रुवाणस्य तथाविधवचोदोषाभावाद्, उत्सूत्रमार्गपतितस्तु सन्मार्गमाश्रितोऽपि न चरमशरीरी स्यात्, तच्छ्रद्धानेन मृतस्तु नियमादनन्तसंसार्येव, तस्य तीर्थमतीर्थत्वेनातीर्थं च तीर्थत्वेन भाषमाणस्य तथाविधवचोदोषसद्भावादिति भावः । 'इअ मुणिअ'ति इति- अमुना प्रकारेण ज्ञात्वा 'तीर्थभक्तिवचसः' तीर्थ तीर्थत्वेन. वक्तव्यं, तदपि त्रैलोक्योत्तमं सर्वगुणनिधानमित्यादिभक्त्या वचो येषां ते तथाभूता भव्याः 'भद्रपदानि' मङ्गलस्थानानि भवन्तु, प्राकृतत्वात् पुंस्त्वनिर्देशः, अयं भावः- आस्तां स्वयं कायेन तदाराधनं, वचोमात्रेणापि तीर्थस्वरूपं सम्यग् निरूपयन् त्रैलोक्यपूज्यलक्ष्मीस्थानं भवतीतिगाथार्थः ||२३२-२३६ ।। अथ तृतीयविश्रामोपसंहारमाह
लोकोत्तरमिथ्यात्व
महत्ता
||४२६||

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498