________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
||४२६॥
कारिवचो न वक्तव्यमिति गाथार्थः || २३४|| अथ गाथायुग्मेनोपसंहारमाह-
जम्हा उ संकिलिट्ठोऽभिनिवेसी होइ तित्थपडिकूले । लोओ उ भणड़ तित्थं तिथं खलु तित्थअनुकूलो ||२३५|| | तेणं तब्भवसिद्धी लभइ परतित्थिएसु न वियऽवत्ते । इअ मुणिअ हुंतु भवा भद्दपया तित्थभत्तिवया ॥ २३६ ॥
यस्मादभिनिवेशी-कुपाक्षिकः संक्लिष्टः- निक्लिष्टपरिणामवान् तीर्थप्रतिकूलः- तीर्थाहितप्रवृत्तिमान् प्रागुक्तयुक्त्या भवति, लोकस्तु - बौद्धादिस्तु खलुरवधारणे तीर्थमेव - जैनमार्गमेव तीर्थं - जैनमार्गं भणति तीर्थानुकूलो - वचसा सम्यग्भाषमाणस्तीर्थानुकूलप्रवृ| त्तिमान् भवति, तेन कारणेन तद्भवसिद्धिः, अपेर्गम्यत्वात् तद्भवसिद्धिरपि - चरमशरीर्यपि लभ्यतेऽन्यतीर्थिकेषु यतोऽन्यतीर्थिका | उत्कर्षतो दश सिद्ध्यन्त्येकस्मिन् समये, यदुक्तं - "सिज्झइ गिहिअन्नसलिंग चउद्दसहाहिअसयं च'त्ति, न चाव्यक्ते- कुपाक्षिकवर्गे | चरमशरीरी स्याद्, अयं भावः - अन्यतीर्थिको हि जैनमार्गश्रद्धानभाग् तद्भवसिद्धिकोऽपि स्यात्, किं तु तथाविधयोग्यतावशात् | कश्चिदेकव्यादिभवसिद्धिकोऽपि भवेत्, तस्य जैनमार्ग जैनमार्गतया ब्रुवाणस्य तथाविधवचोदोषाभावाद्, उत्सूत्रमार्गपतितस्तु सन्मार्गमाश्रितोऽपि न चरमशरीरी स्यात्, तच्छ्रद्धानेन मृतस्तु नियमादनन्तसंसार्येव, तस्य तीर्थमतीर्थत्वेनातीर्थं च तीर्थत्वेन भाषमाणस्य तथाविधवचोदोषसद्भावादिति भावः । 'इअ मुणिअ'ति इति- अमुना प्रकारेण ज्ञात्वा 'तीर्थभक्तिवचसः' तीर्थ तीर्थत्वेन. वक्तव्यं, तदपि त्रैलोक्योत्तमं सर्वगुणनिधानमित्यादिभक्त्या वचो येषां ते तथाभूता भव्याः 'भद्रपदानि' मङ्गलस्थानानि भवन्तु, प्राकृतत्वात् पुंस्त्वनिर्देशः, अयं भावः- आस्तां स्वयं कायेन तदाराधनं, वचोमात्रेणापि तीर्थस्वरूपं सम्यग् निरूपयन् त्रैलोक्यपूज्यलक्ष्मीस्थानं भवतीतिगाथार्थः ||२३२-२३६ ।। अथ तृतीयविश्रामोपसंहारमाह
लोकोत्तरमिथ्यात्व
महत्ता
||४२६||