________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥ ४२५ ।।
| पलध्य प्रतिसमय मवर्णवादी सन् तीर्थकृतामध्यवर्णवाद्येव, यो यदाराध्यस्यावर्णवाद्येवेति तीर्थक्रदवर्णवादी, तथाभूतश्च श्रुतचारित्ररूपधर्मस्याप्यवर्णवादी स्फुटमेव, तथा च तीर्थान्तिर्वर्त्तिनामाचार्यादीनामपि तथैवेति स्वधियैव धीधनानां प्रतीतमेवेति गाथार्थः | || २३३ ॥ ननु लौकिकमिध्यादृगपेक्षया उन्मार्गादिदेशको लोकोत्तरमिथ्याहम् कीम् स्यादित्याह -
लोइ अमिच्छत्ताओऽणंतगुणं मग्गनासणाइवयं । पावं तित्थचाए तुझेविअ तावया अहिअं ||२३४ || लौकिकमिध्यात्वाद् उन्मार्गदेशनादिवचः - उन्मार्गदर्शनान्मार्गनाशनादिवचनमनन्तगुणपापं - मिथ्यात्वबन्धमधिकृत्यानन्तगु| णपातकनिमित्तं, तत्र हेतुमाह - तीर्थत्यागे त्युल्येऽपि च तावता उन्मार्गदेशनादिनाऽधिकमित्यक्षरार्थः, भावार्थस्त्वयं-ननु लौकि| कमिध्यादृग् तावत् मूलतोऽपि जैनमार्ग नाङ्गीकुरुते, लोकोत्तरमिथ्यादृष्टिस्तु भूयांसं जिनोक्तमार्गमङ्गीकृत्य किंचिन्मात्रमपलपति, | तत्कथं लौकिकमिथ्यात्वापेक्षया लोकोत्तरमिथ्यात्वमनन्तगुणमिति पूर्वपक्षे प्राप्तेऽभिधीयते, यदुक्तं भूयांसं जिनोक्तमार्गमङ्गीकुरुते तन्मृपाभाषणमेव, यतो जिनोक्तो मार्गतीर्थ, तच्चोत्सूत्रभाषिणा मूलतोऽपि त्यक्तं, तत्यागे चांशतोऽपि जिनोक्तमार्गानङ्गीकारात् कथं भूयोऽङ्गीकार इति वचनं सत्यं १, किं तु मृषैवेत्यर्थः तथा च यथा बौद्धादिभिर्जेनप्रवचनं त्यक्तं तथोत्सूत्र भाषिणाऽपीति तुल्येऽपि त्यागे बौद्धादिः पृष्टः सन् जैनमार्ग जैनमार्गतथैव व्रते, यथाऽस्मयतिरिक्ता एते जैना इति, अयं कुपाक्षिकस्तु पापात्मा पृष्टः सन् जैनमार्गमप्यजैनमार्गतया ब्रूते, यथा नैते जैनाः, किंतु वयमेव जैना इति जैनमार्गव्यतिरिक्तेऽपि जैनसंज्ञावादिन इत्येतावता मार्गनाशाद्यलीकवचसाऽधिकं - बौद्धादिभ्योऽधिकं तच्चाधिक्यमनन्तगुणकारेण बोध्यं, किंच - जैनमार्गद्वेषोऽपि बौद्धादिभ्योऽधिक एवेति तीर्थवहिर्भूतस्य तीर्थद्वेषिणोऽपि यदि भूयोऽङ्गीकारस्तर्हि कस्याल्पाङ्गीकार इति स्वधिया विचार्य भृयो जैनमार्गाङ्गी
लोकोत्तर
मिथ्यात्व
महत्ता
॥४२५॥