________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥४०५॥
| स्थातव्यमिति प्रागुक्तपञ्चाशकवृत्याद्यनुसारेण सा आचरणा ऊनताविषयिणी बोध्या, अन्यथैवं विकल्पासंभवात् नहि व्युच्छिन्ने ऊनसूत्रं | मासकल्पे पाटकादिपरावृत्तिभणनं सप्रयोजनं स्याद्, यद्यपि कुपाक्षिकस्य देशान्तर परिभ्रमणमग्निवत्तत्तद्देशनिवासिनां जनानामहितायैवेतिकृत्वा नित्यवास एव श्रेय इति तदर्थं शास्त्रसम्मतिप्रदर्शनमनुचितमेव, तथाऽपि मासकल्पाविहारवदिति वाक्यमुद्घोषयन् तीर्थान्तर्वर्तिनां कतिचिन्मुग्धानां प्रमाद रुचिकानां च साधूनां शङ्काहेतुर्भवतीति तमिरामार्थं सार्थकमेवेतिगाधार्थः ॥ २०९ ॥ अथ तात्पर्यमाह
करणाणुणा तत्थवि जो भणड़ मासवुच्छेअ । सो वित्तमुच्छकद्दममंओ पंडिअमण्णो ||२०२|| एवं प्रागुक्तप्रकारेण मासकल्पादिकरणानुज्ञा जिनाज्ञा, तत्रापि यो मासकल्पव्युच्छेदं भणति स क्षेत्रमूर्च्छा-नित्यवासलाम्पटचं | तल्लक्षणो यः कर्दमः - कचवरः तत्र तत्संबन्धी वा मण्डकः सन् पण्डितंमन्यः - स्वगृह एवात्मानं पण्डितं मन्यते इति गाथार्थः ॥ २०२ ॥ अथोन मत्सूत्रमुपसंहरन्नाह
गिहिणो पाणागारा पंचासयमाइवुत्तअविलुत्ता । इच्चाइ अणेगविहं उस्सुत्तं तम्मण ऊणं ॥ २०३ ॥ गृहिणां पानाकाराः पाणस्स लेवेण वा अलेवेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वे 'ति पानस्य षडाकाराः न | संभवन्तीति निजमतिविकल्पनया पञ्चाशकाद्युक्ता अपि लुप्ता - णिगन्तर्गम्यः लोपिता - नाङ्गीकृताः, तत्र पंचाशकादिर्यथा - " इह पुण | अद्धारूवं णवकारादी पइदिणुवओगित्ति । आहारगोअरं जइगिहीण भणिओ इमं चैव ।। १ ।। ग्रहणे आगारे सामाइए चैव विहिसमाउतं । | भेए भोगे सयपालणाए अणुबंधभावे अ ||२||त्ति" पंचा० सूत्रे (१८७-८) तद्वृत्तौ च० गृहिसाधुसाधारणप्रत्याख्यानं तदाकारा -
॥४०५॥