________________
(
अयथास्थानोत्सूत्र
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४०६॥
दयश्च भणिताः, परं न भेदः,तथाऽऽस्तामन्यद् ,असंभव्यपि पारिष्ठापनिकाकारो गृहिणामस्खलितपाठोचारवशाद्भणितः,तथाहि-ननु परिष्ठापनिकादय आकाराः साधूनामेव घटन्ते, ततो गृहिणामयुक्तमेतत् , नैवं, यतो यथा गुर्वादयः पारिष्ठापनिकस्यानधिकारिणो यथा वा भगवतीयोगवाहिनो गृहस्थसंसृष्टाधनधिकारिणोऽपि पारिष्ठापनिकाद्याकारोच्चारणेन प्रत्याख्यान्ति, अखण्डसूत्रमुच्चारणीय| मितिन्यायाद्, एवं गृहस्था अपीति न दोषः,इत्यादि प्रथमपञ्चाशकवृत्तावित्यादि अनेकविधमनमुत्सूत्रं तन्मते-खरतरमते भव| तीति गाथार्थः ॥३॥ अथोभयस्वभावं यदयथास्थानमुत्सूत्रं तदाह-- अह जहअजहट्टाणं उभयसहावं हविज तह बुच्छ । अभिवढिअंमि सावणि पजोसवणावि ओमवणा ॥२०४॥
अथ-अनन्तरमधिकन्यूनोत्सूत्रप्ररूपणानन्तग्मुभयस्वभावमयथास्थानं यथा भवेत्तथा वक्ष्ये इति पूर्वार्दू । अथ किं तदित्याहअभिवर्धिते-अभिवतिसंवत्सरे श्रावणादिमासवृद्धौ कदाचिच्छावणेऽपि-श्रावणमासेऽप्यपश्रवणा-अवगतं श्रावणमागमादिभ्यो यस्याः सा, काप्यागमे सांवत्सरिकप्रतिक्रमणादिपञ्चकृत्यविशिष्टं श्रावणेऽपि पर्युषणापर्व भवतीति श्रवणाभावात् पर्युषणायाः अयथास्थानमुत्सत्रं भवति, तच्चोभयस्वभावं, भाद्रपदो हि पर्युषणायाः स्थानं भवति तच्यागे च न्यूनमुत्सूत्रम् , अस्थानभूते च श्रावणे तदारोपणमधिकमित्युभयस्वभावमुत्सूत्रमिति गाथार्थः ।।२०४॥ अथ यथाऽऽगमोक्तं तथा चाह
जण्णं सवीसराए मासे सेसेहि सत्तरीए अ। पजोसवणा सवणामिअंमि मासंमि भहवए ॥२०५।। ... यत्-यस्मात् णमित्यलङ्कारे सविंशतिरात्रे मासेऽतिक्रान्ते सप्तत्या च दिनैः शेषैःश्रवणामृते-सिद्धान्तोक्तत्वेन श्रवणयोरमृतमिव || | यस्तस्मिन् भाद्रपदे मासे पर्युषणा भवति, यदागमः-"समणे भयवं महावीरे वासाणं सवीसइराए मासे वइकते सत्तरि राइदिएहि
॥४०६॥