________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३७१॥
ऊनसूत्रे स्त्रीजिनपूजानिषेधः
AlumeHIMIREONI
प्रतिषिद्धा, यदुक्तं-"संभवइ अकालेऽविहु कुसुमं महिलाण तेण देवाणं । पूआई अहिगारोन ओघओ सुत्तनिहिट्ठो॥१॥ न छिविंति जहा देहं ओसरणे भावजिणवरिंदाणं । तह तप्पडिमंपि सया पूअंति न सड्ढनारीओ।।२॥"इत्यादि जिनदत्तसूरिकृतस्य कुलकस्य जिनकुशलमूरिकृतायां वृत्तौ,अत्र स्त्रीजनमात्रस्य पूजा निषिद्धा,मापि जिनोक्तेति तीर्थकरकलङ्कदानं,या तु गाथाद्वयसम्मतिदर्शिता सा च स्वयं कृत्वैव शास्त्रोक्तमिति शास्त्रस्यापि कलङ्कदानं,नहि काप्यागमे एतद् गाथाद्वयमस्तीति, अत एव खरतरजातिस्वाभाव्यासम्मतिदानं प्रायः कलङ्कमेव बोध्यं, ननु तथाविधोऽपावित्र्यहेतुकामाशातनां दृष्ट्वा श्रीजिनेन्द्रविषयकपरमभक्त्युल्लसितमानसोऽस्मद्गुरुः स्त्रीणां जिनपूजां निषिद्धवान् तत्र को दोष इति चेन्मैवं, तीर्थकद्गणधरादीनां तीर्थस्य च महाशातनाकारित्वाञ्जिनाज्ञामन्तरेण तीर्थकहुद्देशेनापि कृतस्य कृत्यस्य महानर्थहेतुत्वाद् ,यदाहुः श्रीहरिभद्रसूरिपादाः-"समतिपवित्ती सहा आणाब| ज्झत्ति भवफला चेव । तित्थकरुद्देसेणवि ण तत्तओ सा तदुद्देसा ॥१॥" इति पश्चाशकसूत्रे, अस्या वृत्तिर्यथा-स्वमतिप्रवृत्तिःआत्मबुद्धिपूर्विका चेष्टा सर्वा-समस्ता द्रव्यस्तवभावस्तवदिषया आज्ञाबाह्या-आप्तोपदेशशून्या इति हेतोभवफलैब-संसारनिबन्धनमेव, आज्ञाया एव भवोत्तारणहेतुतया प्रणाणत्वादिति, ननु या तीर्थकरानुद्देशवती सा भवफला युक्ता, नत्वितरा,जिनपक्षपातस्य महाफलत्वादित्याशङ्कयाह-तीर्थकरोद्देशनापि-जिनालम्बनतोऽपि,आस्तां ततोऽन्यत्र,स्वमतिप्रवृत्तिर्भवफलैवेति प्रकृतं,कुत एवं?-यतो न तत्वतः-परमार्थतः सा-तीर्थकरोद्देशवती स्वमतिप्रवृत्तिस्तस्मिन् तीर्थकरे उद्देशः-प्रणिधानं यस्याः सा तदुद्देशा,य एवाज्ञाबाह्यो वर्तत इत्यभिधीयते,नापरः इति श्रीपञ्चाशकवृत्तिः। किंच तथाविधाशातनाहेतुरपावित्र्यं स्त्रीणांनाधुनिकादिकालविशेषजन्यं,किंतु सर्वकालीनं स्वीस्वभावजन्यं,तच्च तीर्थकरादिकालेऽपि समानं,एवं च सति खीणां जिनपूजा जिनादिभिन निषिद्धा जिनदत्तेन च निषिद्धेति |
MUSUAN
||३७१॥