________________
in
श्रीप्रव. चनपरीक्षा ४विश्रामे ॥३७०॥
ऊनसूत्रे स्त्रीजिनपूजानिषेधः
HIRAININDIAHINI
परमार्थास्तुष्टिभाजो भवन्ति-अहो एतेऽपि सम्यग्वादिनो दृश्यन्ते इति,ये तु जिनवचनपरमार्थज्ञास्ते तावदित्थं विचारयन्ति-राजधनमादाय नश्यच्चौरः हेरिकैगृहीत्वा राजसमीपमानीतो निजकुलाचारं पूत्कुर्वाणः-अहो अयं सत्यवादीतिकृत्वा किं राज्ञा मोच्यते?, एवमयमपि, अन्यथा लुम्पाका अपि तथा वक्ष्यमाणा उपेक्षणीयाः सत्यवादितया वा वक्तव्याः स्युरित्यादि स्वयमेव पर्यालोच्यं, गणसामाचारीवक्ता तथाविधो धृतों न विश्वसनीयः, किंतु यथा ननु भो चौर! त्वत्कृत्यं शुभमशुभं वेति नोदितो जगत्स्थितिविलोपाशक्तोऽशुभमेव बूते,तद्दण्डोऽपि तन्मुखादेव कर्तव्यो भवेद् , एवमत्रापि ननु भो जिनदत्तापत्य ! स्त्रीजिनपूजानिषेधरूपा त्वदभिमता सामाचारी किं सम्यगुतासम्यग्बा?, इत्येवमुदीरितो यदि मृदुः स्यात्तर्हि सम्यगिति वक्तुमशक्तोऽसम्यगेव,परं गच्छसामाचारीति शरणं श्रयते, तदा च तद्वचनादेव तथा दण्डयोग्यः कर्तव्यः,अथ धूर्तः कश्चिद्धाष्टर्थभाग् बूते-सम्यगेव, तदानीं प्रष्टव्यः| भो तादृक्सामाचारी श्रीसुधर्मस्वामिनोच्छिन्नपरम्परागता उत त्वदभिमताचार्यात्प्रवृतेति?, तत्र प्रथमं विकल्पं वक्तुमशक्तो जिनदत्ताचायादेव प्रवृत्तेति ब्रूते,तत्रैवमभिधातव्यं-भो खरतर ! म आचार्यः किमागमव्यवहारी उत श्रुतव्यवहारी?, प्रथमो वक्तुमशक्यः, तदानीमागपव्यवहारस्य व्युच्छिन्नत्वात् , श्रुतव्यवहारे च श्रुतव्यबहारमुल्लवन्य प्रवर्तमानो द्रष्टुमप्यकल्प्यः, यो यो यद्ययवहारवान् स स तं तं व्यवहारं पुरस्कृत्य प्रवर्तमानो जिनाज्ञाराधको, नान्यथा,एवं च सति श्रुतव्यवहारवानप्यागमव्यवहारिणोऽप्यधिकमात्मानं मन्यमानः कृत्यं स्त्रीजिनपूजानिषेधरूपं प्ररूपयन् कीदृशो भण्यते?,वक्तुमप्यशक्य इत्यर्थः, यतोऽद्यप्रभृत्येतादृशं प्ररूपणं न केनापि कृतम् ,अनेन च धाष्टर्थमवलम्ब्य विहितमतः सामाचारीति वचनं न तुष्टिहेतुः, सामाचारीवचनमप्याधुनिकानामेव. प्राचीनास्तु तदीयास्तीर्थऋद्भिरेव स्त्रीणां जिनपूजा निषिद्धा इत्यवादिषुः,यदुक्तं-आशातनाभङ्गभयादेव स्त्रीणां स्वहस्तेन जिनबिम्बपूजा
HiumHIRUPP
"