Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 419
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ||३८५|| | रोक्तः प्रतिमानुष्ठानादिक्रमः प्रव्रज्याप्रतिपत्तों परिपाटिः, कथमित्याह "ओघेन' सामान्येन, न तु सर्वथैव तद्विनापि बहूनां प्रव्रज्याश्रवणात्, कालापेक्षया विशेषमाह-साम्प्रतं वर्तमानकाले विशेषेण विशेषतो युक्त एव क्रमः कुत एतदेवमित्याह-यतः कारणादशुभः - अशुभानुभावः कालो दुष्पमालक्षणो वर्तते, ततश्च दुरनुचरो - दुःखासेव्यः संयमः - संयतत्वमत्र - अशुभकालेऽतः प्रव्रजितु| कामेन प्रतिमाभ्यासो विधेय इतिभाव इति गाथार्थः । तन्त्रान्तरप्रसिद्ध्या प्रतिमापूर्वकत्वं प्रव्रज्यायाः समर्थयन्नाह--तंतंतरेसुवि इमो आसमभेओ पसिद्धओ चेव । ता इह जइअवं खलु भवविरहं इच्छमाणेहिं ॥ १ ॥ति, अस्या वृत्तिः - तन्त्रान्तरेष्वपि - दर्शनान्तरेष्वपि, आस्तां | जैनप्रवचने अनन्तरोक्तः आश्रमभेदो - भूमिकाविशेषो 'ब्रह्मचारी गृहस्थश्थ, वानप्रस्थो यतिस्तथेत्यादिनोक्तस्वरूपः इउत्ति पाठान्तरं तत्र इतः - अशुभ कालदुरनुचरसंयमलक्षणाद्धेतुद्वयाद् अथवा इतो - जैनप्रयचना तन्त्रान्तरेष्विति, प्रसिद्धकश्चैव सिद्ध एव, न तु साध्यो, | यस्मादेवं तत्-तस्मादित्युक्तन्यायेनेह प्रतिमापूर्वं वा प्रव्रज्यायां यतितव्यं यत्नो विधेयः, भवविरहं-संसारवियोगमिच्छद्भिः- वाञ्छः | द्भिर्निखिलशास्त्रप्रवरपारगतागमावलम्बिभिरिति गाथार्थः । । ९५ ।। अत्र दुष्पमाकाले विशेषतः प्रतिमापूर्वकमेव चारित्र प्रतिपत्तिरुक्ता, | तेन यः कश्चित् " साहूणं गोअरओ बुच्छिलो दूसमाणुभावाओ । अजाणं पणवीसं सावयधम्मो अ वुच्छिन्नो || १ || "त्ति गाथायां श्रावकधर्मश्चात्र प्रतिमारूपो ज्ञेय इति काल्पनिकमर्थमुद्भाव्य मुग्धान् व्युग्राहयति सोऽपि प्रतिक्षिप्तो बोध्यः, एवंविधस्यार्थस्य काप्यागमेऽनुपलम्भादितिगाथार्थः ||९५|| अथ पुनरपि न्यूनमुत्सूत्रमाह समणाणं समणीहिं गामाणुग्गामविहरणं न सुहं । इअ उबएसी पयवणमेराओ दूरओ णेप | ९५॥ श्रमणीमः साध्वीभिः सह श्रमणानां निर्ग्रन्थानां ग्रामानुग्राम विहरणं ग्रामानुग्राम विहारकरणं न शुभमित्यमुना प्रकारेणोपदेशवचनं प्रतिमानु च्छेदः ॥३८५।।

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498