________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
||३८५||
| रोक्तः प्रतिमानुष्ठानादिक्रमः प्रव्रज्याप्रतिपत्तों परिपाटिः, कथमित्याह "ओघेन' सामान्येन, न तु सर्वथैव तद्विनापि बहूनां प्रव्रज्याश्रवणात्, कालापेक्षया विशेषमाह-साम्प्रतं वर्तमानकाले विशेषेण विशेषतो युक्त एव क्रमः कुत एतदेवमित्याह-यतः कारणादशुभः - अशुभानुभावः कालो दुष्पमालक्षणो वर्तते, ततश्च दुरनुचरो - दुःखासेव्यः संयमः - संयतत्वमत्र - अशुभकालेऽतः प्रव्रजितु| कामेन प्रतिमाभ्यासो विधेय इतिभाव इति गाथार्थः । तन्त्रान्तरप्रसिद्ध्या प्रतिमापूर्वकत्वं प्रव्रज्यायाः समर्थयन्नाह--तंतंतरेसुवि इमो आसमभेओ पसिद्धओ चेव । ता इह जइअवं खलु भवविरहं इच्छमाणेहिं ॥ १ ॥ति, अस्या वृत्तिः - तन्त्रान्तरेष्वपि - दर्शनान्तरेष्वपि, आस्तां | जैनप्रवचने अनन्तरोक्तः आश्रमभेदो - भूमिकाविशेषो 'ब्रह्मचारी गृहस्थश्थ, वानप्रस्थो यतिस्तथेत्यादिनोक्तस्वरूपः इउत्ति पाठान्तरं तत्र इतः - अशुभ कालदुरनुचरसंयमलक्षणाद्धेतुद्वयाद् अथवा इतो - जैनप्रयचना तन्त्रान्तरेष्विति, प्रसिद्धकश्चैव सिद्ध एव, न तु साध्यो, | यस्मादेवं तत्-तस्मादित्युक्तन्यायेनेह प्रतिमापूर्वं वा प्रव्रज्यायां यतितव्यं यत्नो विधेयः, भवविरहं-संसारवियोगमिच्छद्भिः- वाञ्छः | द्भिर्निखिलशास्त्रप्रवरपारगतागमावलम्बिभिरिति गाथार्थः । । ९५ ।। अत्र दुष्पमाकाले विशेषतः प्रतिमापूर्वकमेव चारित्र प्रतिपत्तिरुक्ता, | तेन यः कश्चित् " साहूणं गोअरओ बुच्छिलो दूसमाणुभावाओ । अजाणं पणवीसं सावयधम्मो अ वुच्छिन्नो || १ || "त्ति गाथायां श्रावकधर्मश्चात्र प्रतिमारूपो ज्ञेय इति काल्पनिकमर्थमुद्भाव्य मुग्धान् व्युग्राहयति सोऽपि प्रतिक्षिप्तो बोध्यः, एवंविधस्यार्थस्य काप्यागमेऽनुपलम्भादितिगाथार्थः ||९५|| अथ पुनरपि न्यूनमुत्सूत्रमाह
समणाणं समणीहिं गामाणुग्गामविहरणं न सुहं । इअ उबएसी पयवणमेराओ दूरओ णेप | ९५॥ श्रमणीमः साध्वीभिः सह श्रमणानां निर्ग्रन्थानां ग्रामानुग्राम विहरणं ग्रामानुग्राम विहारकरणं न शुभमित्यमुना प्रकारेणोपदेशवचनं
प्रतिमानु च्छेदः
॥३८५।।