________________
प्रश्नव्याक२०श्रीअभयदेव०
३ अधर्म। द्वारे अदत्तादानकारकाः सू०११
वृत्तिः
ये ते दईरापवीडकाः, मुष्णन्ति हि शठात्मानः तथाविधवचनाक्षेपप्रकटितखभावं मुग्धं जनमिति, अथवा दईरेणोपपीडयन्ति-जातमनोबाधं कुर्वन्तीति दईरोपपीडकाः ते च, गृद्धिं कुर्वन्तीति गृद्धिकाः अभिमुख परं मारपन्ति ये तेऽभिमराः ऋणं-देयं द्रव्यं भञ्जन्ति-न ददति ये ते ऋणभञ्जकाः भग्नाः-लोपिताः सन्धयःविप्रतिपत्ती संस्था यैस्ते भग्नसन्धिकाः ततः पदद्वयस्य कर्मधारयः राजदुष्टं-कोशहरणादिकं कुर्वन्ति येते तथा ते च विषयात्-मण्डलात् 'निच्छूढ'त्ति निर्धाटिता येते तथा लोकबाह्या:-जनबहिष्कृतास्ततः कर्मधारयः उद्दोहकाश्च-घातका उद्दहकाश्च वा-अटव्यादिदाहका ग्रामघातकाश्च पुरघातकाश्च पथिघातकाश्च आदीपिकाश्च-गृहादिप्रदीपनककारिणः तीर्थभेदाश्च-तीर्थमोचका इति द्वन्द्वः, लघुहस्तेन-हस्तलाघवेन सम्प्रयुक्ता ये ते तथा 'जूईकर'त्ति द्यूतकराः 'खण्डरक्षा शुल्कपालाः कोहपाला वा स्त्रियाः सकाशात् स्त्रियमेव वा चोरयन्ति स्त्रीरूपा वा ये चौरास्ते स्त्रीचौराः एवं पुरुषचौरका अपि सन्धिच्छेदाश्च-क्षात्रखानका एतेषां द्वन्द्वस्ततस्ते च, ग्रन्थिभेदका इति व्यक्तं, परधनं हरन्ति येते परधनहरणाः लोमान्यवहरन्ति ये ते लोमावहाराः निःशूकतया भयेन परप्राणान् विनाश्यैव मुष्णन्ति ये ते लोमावहारा उच्यन्ते आक्षिपन्ति वशीकरणा|दिना येते ततो मुष्णन्ति ते आक्षेपिणः, एतेषां द्वन्द्वः, 'हडकारगति हठेन कुर्वन्ति येते हठकारकाः पाठान्तरेण 'परधणलोमावहारभक्खेवहडकारकति सर्वेऽप्येते चौरविशेषाः, निरन्तरं मृदनन्ति ये ते निर्मकाः। गूढचौरा:-प्रच्छन्नचौरा गोचौरा अश्वचौरका दासीचौराश्च प्रतीताः, एतेषां द्वन्द्वोऽतस्ते च, एकचौरा-ये
॥४६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org