Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 280
________________ प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः ॥ १३९ ॥ त्स्यायनप्रसिद्धास्ते वा न कथयितव्याः, तथा न-नैव देशजातिकुलरूपनामनेपथ्यपरिजनकथा वा स्त्रीणां कथयितव्येति प्रक्रमः, तत्र लाटादिदेशसम्बन्धेन स्त्रीणां वर्णनं देश कथा, यथा- “लाट्यः कोमलवचना रतिनि पुणा वा भवन्तीत्याह, जातिकथा यथा - “धिक ब्राह्मणीर्घवाभावे, या जीवन्ति स्मृता इव । धन्या मन्ये जने शूद्रः पतिलक्षेऽप्यनिन्दिताः ॥ १ ॥” तथा कुलकथा यथा - "अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्यो विशंत्यग्नौ या प्रेमरहिता अपि ॥ १ ॥ रूपकथा यथा - "चन्द्रवक्त्रा सरोजाक्षी, सद्गीः पीनघन स्तनी । किं लाटी न मत्ता साऽस्य, देवानामपि दुर्लभा ॥ १ ॥” नामकथा सा सुन्दरीति सत्यं सौन्दर्यातिशयसमन्वितत्वात्, नेपथ्यकथा यथा - "धिग् ! नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥ १ ॥” परिजनकथा यथा - "चेटिका परिवारोऽपि तस्याः कान्तो विचक्षणः । भावज्ञः स्नेहवान् दक्षो, विनीतः सत्कुलस्तथा ॥ १ ॥" किं बहुना ?, अन्या अपि च एवमादिकाः-उक्तप्रकाराः कथाः स्त्रीसम्बन्धिकथाः शृङ्गारकरुणाः-शृङ्गारमृदवः शृङ्गाररसेन करुणापादिका इत्यर्थः तपःसंयमब्रह्मचर्यघातकोपघातिकाः अनुचरता ब्रह्मचर्यं न कथयितव्या न श्रोतव्या अन्यतः न चिन्तयितव्या वा यतिजनेन, द्वितीय भावनानिगमनायाह एवं स्त्रीकथाविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मः जितेन्द्रियो ब्रह्मचर्यगुप्त इति प्रकटमेव २ । 'तइयं'ति तृतीयं भावनावस्तु स्त्रीरूपनिरीक्षणवर्जनं, तञ्चैवम्-नारीणां स्त्रीणां हसितं भणितं - हास्यं सविकारं भणितं च तथा चेष्टितं हस्तन्यासादि विप्रेक्षितं Jain Education International For Personal & Private Use Only ४ धर्मद्वारे सभावनाक ब्रह्मचर्यम् सू० २७ ॥ १३९ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332