Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 295
________________ भूमौ तस्य पूर्वमाचमनं १० ततो निवृत्तस्य पूर्व गमनागमनालोचनं ११ रात्रौ को जागतति पृष्टे तद्वचनाप्रतिश्रवणं १२ आलापनीयस्य पूर्वतरमालापनं १३ लब्धस्याशनादेरन्यस्मै पूर्वमालोचनं १४ एवमन्यस्योपदर्शनं १५ एवं निमन्त्रणं १६ रत्नाधिकमनापृच्छयान्यस्मै भक्तादिदानं १७ स्वयं प्रधानतरस्य भोजनं १८ व्याहरतो रत्नाधिकस्य वचनाप्रतिश्रवणं १९ रत्नाधिकस्य समक्षं बृहता शब्देन बहुधा भाषणं २० व्याहृतस्य किं भणसीति भणनं २१ प्रेरणायां कोऽसि त्वमित्येवमुल्लण्ठवचनं २२ ग्लानं प्रतिचरेत्याद्यादेशे त्वमेव किं न प्रतिचरसीत्यादिभणनं २३ धर्म देशयति गुरावन्यमनस्कत्वं २४ कथयति गुरौ न स्मरसीति भणनं २५ धर्मकथाया आच्छेदनं २६ भिक्षावेला वर्त्तत इत्यादिवचनतः पर्षदो भेदनं २७ पर्षदस्तथैव स्थितायाः धर्मकथनं २८ गुरुसंस्तारकस्य पादघहनं २९ गुरुसंस्तारके निषदनं ३० एवमुच्चासने ३१ एवं समासने ३२ गुरौ किञ्चित् पृच्छति तत्रगतस्यैवोत्तरदानं चेति ३३ । 'सुरिंद'त्ति द्वात्रिंशत्सुरेन्द्रा विंशतिर्भवन पतिषु दश वैमानिकेषु द्वौ ज्योतिष्केषु चन्द्रसूर्याणामसङ्ख्यातत्वेऽपि जातिग्रहणाद् द्वितयमेवेति, इयं चेन्द्रसङ्ख्या यद्यपि वक्ष्यमाणसूत्रगत्या न प्रतीयते तथापि ग्रन्थान्तरादवसेया, भवन्तीत्यनुवर्त्तते सर्वत्र, इह स्थाने 'एएस'ति वाक्यशेषो द्रष्टव्यः तेन य एते एकत्वादिसङ्ख्योपेता असंयमादयो भावा भवन्ति एतेषु किंभूतेषु ? - आदिमंप्रथमं एकादिकं - एकद्वित्र्यादिकं सङ्ख्याविशेषं कृत्वा - विधाय एकोत्तरिकया वृद्ध्या इति गम्यते वर्द्धितेषु - सङ्ख्याधिक्यं प्राप्तेषु कियतीं सङ्ख्यां यावद्वृद्वेष्वित्याह- 'तीसातो जाव 'भवे तिकाहिया' त्रिंशयावद् भ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332