Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 330
________________ प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः ॥ १६४ ॥ - पतनं स तथा, पीडनं यत्रपीडनं कपिकच्छू:- तीव्रकण्डूतिकारकः फलविशेषः अग्निः - वहि: 'विच्छुयडक्क'त्ति वृश्चिकदंशः वातातपदंशमशकनिपातश्चेति द्वन्द्वः ततस्तान् स्पृष्ट्वा दुष्टनिषद्या - दुरासनानि दुर्निषीधिकाः-कष्टखाध्यायभूमीः स्पृष्ट्वा तेष्विति सम्बन्धात् तेषु कर्कशगुरुशीतोष्णरूक्षेषु बहुविधेषु अन्येषु चैवमादिकेषु स्पशैष्वमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यमित्यादि पञ्चमभावनानिगमनं पूर्ववत् ५ । इह पञ्चमसंवरे शब्दादिषु रागद्वेषनिरोधनं यद्भावनात्वेनोक्तं तत्तेषु तदनिरोधे परिग्रहः स्यादिति मन्तव्यं तद्विरत एव चापरिग्रहो भवतीति, आह च - " जे सद्दरूवरसगंधमागए, फासे य संपप्प मणुण्णपावए । गेही पओसं न करेज्ज | पंडिए, स होति दंते विरए अकिंचणे ॥ १ ॥” त्ति [य आगतान् शब्दरूपरसगन्धान् स्पर्शाश्च मनोज्ञपापकान् संप्राप्य । गृद्धिं प्रद्वेषं च न कुर्यात् पण्डितः स भवति दान्तो विरतोऽकिञ्चनः ॥ १ ॥ ] 'एवमिण' मित्यादि पञ्चमसंवराध्ययननिगमनं पूर्ववदिति । अथ संवरपञ्चकस्य निगमनार्थमाह-एतानि पञ्चापि हे सुव्रत शोभननियम ! महाव्रतानि संवररूपाणि हेतुशतैः - उपपत्तिशतैर्विविक्तैः-निर्दोषैः पुष्कलानि - विस्तीर्णानि यानि | तानि तथा, यानि केत्याह- कथिताः - प्रतिपादिताः अर्हच्छासने-जिनागमे पश्च समासेन सङ्क्षेपेण संवरा:| संवरद्वाराणि विस्तारेण तु पञ्चविंशतिः प्रतिव्रतं भावनापञ्चकस्य संवरतया प्रतिपादितत्वादिति । अथ संवरासेविनो भाविनीं फलभूतामवस्थां दर्शयति-समितः ईर्यासमित्यादिभिः पञ्चविंशतिसङ्ख्याभिरनन्तरोदिताभिः भावनाभिः सहितो ज्ञानदर्शनाभ्यां सुविहितो वा संवृतश्च कषायेन्द्रियसंवरेण यः स तथा सदा Jain Education International For Personal & Private Use Only ५ धर्मद्वारे परिग्रहविरतौ संव रपादपः भिक्षाअ सन्निधि भविनाश्च सू० २९ ॥ १६४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332