Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 331
________________ सर्वदा यत्नेन-प्राप्तसंयमयोगेषु प्रयत्नेन घटनेन-अप्राप्तसंयमयोगप्राप्त्यर्थघटनया सुविशुद्ध दर्शनं-श्रद्धानरूपं यस्य स तथा, एतान् उक्तप्रकारान् संवरान् अनुचर्य-आसेव्य संयतः-साधुः चरमशरीरधरो भविष्यति पुनः शरीरस्याग्रहीता भविष्यतीति भावः, वाचनान्तरे पुनर्निगमनमन्यथाऽभिधीयते यदुत एतानि पञ्चापि सुव्रत! महाव्रतानि लोकधृतिव्रतानि श्रुतसागरदर्शितानि तपःसंयमव्रतानि शीलगुणधरव्रतानि सत्यार्जवव्रतानि नरकतिर्यमनुजदेवगतिविवर्जकानि सर्वजिनशासनकानि कर्मरजोविदारकाणि भवशतविमो|चकानि दुःखशतविनाशकानि सुखशतप्रवर्तकानि कापुरुषदुरुत्तराणि सत्पुरुषतीरितानि निर्वाणगमनस्वर्गप्रयाणकानि पश्चापि संवरद्वाराणि समाप्तानीति ब्रवीमीति ॥ समाप्ता श्रीप्रश्नव्यारणाङ्गटीका ॥ नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः॥१॥ इह हि गमनिकार्थ यन्मयाऽभ्यूहयोक्तं, किमपि समयहीनं तद्विशोध्यं सुधीभिः। नहि भवति विधेया सर्वथाऽस्मिन्नुपक्षा, दयितजिनमतानां तायिनां चाङ्गिवर्गे ॥२॥ परेषां दुर्लक्ष्या भवति हि विवक्षा स्फुटमिदं, विशेषाद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादृशजनैः, ततः शास्त्रार्थ मे वचनमनघं दुलर्भमिह ॥३॥ ततः सिद्धान्ततत्त्वज्ञैः, खयमूह्यः सुयत्नतः । न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः॥४॥ तथैव माऽस्तु मे पापं, सङ्घमत्युपजीवनात् । वृद्धन्यायानुसारित्वात्, हितार्थ च प्रवृत्तितः॥५॥ Jain Education International For Personal & Private Use Only Tww.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332