Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 316
________________ प्रश्नव्याकर० श्रीअभयदेव. वृत्तिः ROCEEDS सिद्धान्तनिपुणश्च भवति सुखदुःखनिर्विशेषो-हर्षादिरहित इत्यर्थः, 'अभितरवाहिरे'त्ति अभ्यन्तरस्यैव |शरीरस्य कर्मलक्षणस्य तापकत्वादाभ्यन्तरं-प्रायश्चित्तादि षड्डिधं बाह्यस्याप्यौदारिकलक्षणस्य शरीरस्य तापकत्वाद बाह्य-अनशनादि षडिधं अनयोश्च द्वन्द्वस्तत आभ्यन्तरवाह्ये सदा-नित्यं तप एव उपधानं-गुणोपष्टम्भकारि तपउपधानं तत्रच सुष्ट्युक्तः-अतिशयेनोद्यतःक्षान्तः-क्षमावान् दान्तश्च-इन्द्रियदमेन 'हियनिरए'त्ति आत्मनः परेषां च हितकारीत्यर्थः, पाठान्तरे धृतिनिरतः, 'ईरिए'त्यादीनि दश पदानि पूर्वोक्तार्थप्रपञ्चरूपाणि प्रतीतार्थान्येव, तथा त्यागात्-सर्वसङ्गत्यागात् संविग्नमनोज्ञसाधुदानाद्वा 'लज्जुत्ति रज्जुरिव रज्जुः सरलत्वात् धन्यो-धनलाभयोगयोग्यत्वात् तपस्वी प्रशस्ततपोयुक्तत्वात् क्षान्त्या क्षमते न त्वसामर्थ्यादिति क्षान्तिक्षमः |जितेन्द्रिय इति व्यक्तं शोभितो गुणयोगात् शोधिदो वा शुद्धिकारी सुहृद्वा सर्वप्राणिमित्रं अनिदानोनिदानपरिहारी संयमात् न बहिश्या-अन्तःकरणवृत्तिर्यस्य सोऽबहिर्लेश्यः अममो-ममकारवर्जितः अकिश्चनो-निद्रव्यः छिन्नग्रन्थ:-त्रुटितस्नेहः पाठान्तरे 'छिण्णसोय'त्ति छिन्नशोकः अथवा छिन्नश्रोताः, तत्र श्रोतो द्विविधं-द्रव्यश्रोतो भावोतश्च, तत्र द्रव्यश्रोतो-नद्यादिप्रवाहः भावश्रोतश्च-संसारसमुद्रपात्यशुभो लोकव्यवहारः स छिन्नो येन स तथा, निरुपलेपः-अविद्यमानकर्मानुलेपः एतच्च विशेषणं भाविनि भूतवदुपचारमाश्रित्योच्यते, सुविमलवरकांस्यभाजनमिव विमुक्तो यः श्रमणपक्षे तोयमिव तोयं-सम्बन्धहेतुः लेहः शङ्ख इव निरञ्जन:-अविद्यमानरञ्जनः साधुपक्षे रञ्जनं-जीवखरूपोपरञ्जनकारि रागादिकं वस्तु, अत CARRORSCAKC ५धर्मद्वारे परिग्रहविरतौ संवरपादप: भिक्षाअसन्निधिर्भावनाश्च सू० २९ ॥१५७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332