Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 326
________________ प्रश्नव्याक र० श्रीअभयदेव० वृत्तिः ४ सपुष्पफलपानभोजनानि प्रतीतानि कुष्टं-उत्पलकुष्ठं 'तगत्ति गन्धद्रव्यविशेषः पत्रं-तमालपत्रं 'चोय'त्ति त्वक् दमनकः-पुष्पजातिविशेषः मरुकः-प्रतीतः एलारसः-सुगन्धिफलविशेषरसः 'पिक्कमंसित्ति पक्कासंस्कृता मांसीति-गन्धद्रव्यविशेषः गोशीर्षाभिधानं सरसं यच्चन्दनं तत्तथा कपूरो-घनसारः लवङ्गानि-फलविशेषाः अगुरु-दारुविशेषः कुङ्कम-कश्मीरज कल्लोलानि-फलविशेषाः ओशीरं-वीरणीमूलं श्वेतचन्दनं श्रीखण्डं खेदो वा-स्यन्दश्चन्दनं-मलयजं सुगन्धानां-सद्गन्धानां साराङ्गानां-प्रधानदलानां युक्तिः-योजनं मायेषु वरधूपवासेषु ते तथा ते च ते वरधूपवासाश्चेति समासः ततस्तानाघ्राय तेविति योगात् तेषु 'उउयपिंडिमनीहारिमगंधिएसुत्ति ऋतुजा-कालोचित इति भावः पिण्डिमो-बहला निर्झरिमो-दूरनिर्यायी यो गन्धः स विद्यते येषु ते तथा लेषु अन्येषु चैवमादिकेषु गन्धेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादिकं किं ते इत्येतदन्तं पूर्ववत्, तथा अहिमृतादीन्येकादश प्रतीतानि नवरं वृकः-ईहामृगः द्वीपी-चित्रकः एषां चाहिमृतकादीनां द्वन्द्वः द्वितीयाबहुवचनं दृश्यं तत आघायेति क्रिया योजनीया, ततस्तेष्विति योगात् तेषु किंविधेष्वित्याह-मृतानि-जीवविमुक्तानि कुथितानि-कोथमुपगतानि विनष्टानि पूर्वाकारविनाशेन 'किमि'त्ति कृमिवन्ति बहुदुरभिगन्धानि च-अत्यन्तममनोज्ञगन्धानि यानि तानि तथा तेषु अन्येषु चैवमादिकेषु गन्धेषु अमनोज्ञपापकेषु न श्रमणेनरोषितब्यमित्यादि पूर्ववत'चउत्थं तिचतुर्थ भावनावस्तु जिह्वेन्द्रियसंवरः, तचैवम्-जिह्वेन्द्रियेणाखाद्य रसांस्तु मनोज्ञभद्रकान् 'किंतेत्ति तद्यथा अवगाहा-स्लेहबोलनं तेन पाकतो निवृत्त ५धर्मद्वारे परिग्रहवि| रतौ संव|रपादपः भिक्षाअसन्निधिर्भावनाश्च सू० २९ ॥१६२॥ ॥१६२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332