Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 320
________________ प्रश्रव्याक र० श्रीअभयदेव. वृत्तिः ॥१५९॥ RECRUARREARRIA तथा नटनर्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलंखमंखतुणइल्लतुंबवीणिकतालाचरैः पूर्वव्याख्यातैः प्रक्रियन्ते-विधीयन्ते यानि तानि नटादिप्रकरणानि, तानि च कानीत्याह-बहूनि अनेकानि मधुरखराणां-कलध्वनीनां गायकानां यानि गीतानि सुखराणि तानि श्रुत्वा तेषु श्रमणेन न सक्तव्यमिति सम्बन्धः, तथा काञ्ची-कट्याभरणविशेष मेखलापि तद्विशेष एव कलापको-ग्रीवाभरणं प्रतरकाणि प्रहेरक:आभरणविशेषः पादजालक-पादाभरणं घण्टिका:-प्रतीताः किंकिण्य:-क्षुद्रघण्टिकाः तत्प्रधानं 'रयण'त्ति रत्नसम्बन्धी उर्वो:-बृहज्जयोर्जालकं यत्तत्तथा 'छुड्डिय'त्ति क्षुद्रिका आभरणविशेषः नपुर-पादाभरणं चलनमालिकाऽपि तथैव कनकनिगडानि जालकं चाभरणविशेषः एतान्येव भूषणानि तेषां ये शब्दास्ते तथा तान् किंभूतानित्याह-लीलाचम्यमाणानां-हेलया कुटिलगमनं कुर्वाणानामुदीरितान्-सञ्जातान् लीलासश्चरणसञ्जनितानित्यर्थः, तथा तरुणीजनस्य यानि हसितानि भणितानि च कलानि च-माधुर्यविशिष्टध्वनिविशेषरूपाणि रिभितानि- स्वरघोलनावन्ति मञ्जुलानि च-मधुराणि तानि तथाऽतस्तानि, तथा गुणवचनानि चवास्तुतिवादांश्च बहूनि-प्रचुराणि मधुरजनभाषितानि-अमत्सरलोकभणितानि श्रुत्वा, किमित्याह-तेष्वित्युत्तरस्येह सम्बन्धात् तेषु अन्येषु चैवमादिकेषु-एवंप्रकारेषु शब्देषु मनोज्ञभद्रकेषु न, तेष्विति योजितमेव, श्रमणेन सक्तव्यमिति सम्बन्धः कार्यः, न रक्तव्यं-न रागकार्यः न गर्द्धितव्यं-अप्राप्तेष्वाकाङ्क्षा न कार्या न मोहितव्यं-तद्विपाकपालोचनायांन मूढेन भाव्यं न विनिघातं-तदर्थमात्मनः परेषां वा विनिहननं आपत्तव्यं ५धर्मद्वारे परिग्रहवि| रतौ संवरपादपः भिक्षाअसन्निधि भर्भावनाश्च सू०२९ ॥१५९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332