Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 315
________________ R-54 ग्रहीतव्यं चेति, किन्तदित्याह-भायणभंडोवहिउवगरणं, एवं-अनेन न्यायेन संयतः-संयमी विमुक्तःत्यक्तधनादिः निःसङ्ग:-अभिष्वङ्गवर्जितः निर्गता परिग्रहे रुचिर्यस्य स तथा निर्ममो-ममेतिशब्दवर्जी निःस्लेहबन्धनश्च यः स तथा, सर्वपापविरतः, वास्यां-अपकारिकायां चन्दने च-उपकारके समान:-तुल्यः कल्प:समाचारो विकल्पो वा यस्य स तथा, द्वेषरागविरहित इत्यर्थः, समा-उपेक्षणीयत्वेन तुल्या तृणमणिमुक्ता यस्य स तथा, लेष्टौ काश्चने च समः-उपेक्षकत्वेन तुल्यो यः स तथा, ततः कर्मधारयः, समश्च हर्षदैन्याभावात् मानेन-पूजया सहापमानता तस्यां, शमितं-उपशमितं रजः-पापं रतं वा-रतिर्विषयेषु रयो वाऔत्सुक्यं येन शमितरजाः शमितरतः शमितरयो वा-शमितरागद्वेषः समितः समितिषु पश्चसु सम्यग्दृष्टि:सम्यग्दर्शनी, समश्च यः सर्वप्राणभूतेषु, तत्र प्राणा-द्वीन्द्रियादित्रसाः भूतानि-स्थावराः, 'से हु समणे'त्ति स एव श्रमण इति वाक्ये निष्ठा, किंभूतोऽसावित्याह-श्रुतधारकः ऋजुक:-अवक्र: उद्यतो वा-अनलसः संयमी, सुसाधुः-सुष्टु निर्वाणसाधनपरः शरणं-त्राणं सर्वभूतानां-पृथिव्यादीनां रक्षणादिना सर्वजगद्त्सलः-सर्वजगद्वात्सल्यकर्ता हित इत्यर्थः, सत्यभाषकश्चेति, संसारान्ते स्थितश्च 'संसारसमुच्छिण्णे'त्ति समुच्छिन्नसंसारः सततं-सदा मरणानां पारगः सर्वदैव तस्य न बालादिमरणानि भविष्यन्तीत्यर्थः, पारगश्च सर्वेषां संशयानां छेदक इत्यर्थः, प्रवचनमातृभिरष्टाभिः-समितिपञ्चकगुप्तित्रयरूपाभिः करणभूताभिरष्टकर्मरूपो यो ग्रन्थिस्तस्य विमोचको यः स तथा, अष्टमानमथन:-अष्टमदस्थाननाशकः खसमयकुशलश्व-ख - 5-% dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332