Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
२
एवाह-विगतरागद्वेषमोहः, कूर्म इव इन्द्रियेषु गुप्तः यथा हि कच्छपः ग्रीवापञ्चमैश्चतुर्भिः पदैः कदाचिद गुप्तो भवतीत्येवं साधुरपीन्द्रियेषु, इन्द्रियानाश्रित्येत्यर्थः, जात्यकाञ्चनमिव जातरूपः रागादिकुद्रव्यापोहाल्लब्धखरूप इत्यर्थः, पुष्करपत्रमिव-पद्मदलमिव निरुपलेपो भोगगृद्धिलेपापेक्षया, चन्द्र इव सौम्यतया पाठान्तरेण सौम्यभावतया-सौम्यपरिणामेन अनुपतापकतया सूर इव दीसतेजाः-तपस्तेजः प्रतीत्य अचलो-निश्चलः परी|पहादिभिः यथा मन्दरो गिरिवरो मेरुरित्यर्थः अक्षोभ:-क्षोभवर्जितः सागर इव स्तिमितः भावकल्लोलर|हितः तथा पृथिवीव सर्वस्पर्शविषहः शुभाशुभस्पर्शेषु समचित्त इत्यर्थः, 'तवसाविय'त्ति तपसाऽपि च हेतु
भूतेन भस्मराशिच्छन्न इव जाततेजाः-वह्निः, भावनेह-यथा भस्मच्छन्नो वहिरन्तज्वलति बहिर्लानो भवती|त्येवं श्रमणः शरीरमाश्रित्य तपसा म्लानो भवति अन्तः शुभलेश्यया दीप्यत इति, ज्वलितहुताशन इव तेजसा ज्वलन् साधुपक्षे तेजो-ज्ञानं भावतमोविनाशकत्वात्, गोशीर्षचन्दनमिव शीतलो मनासन्तापोपशमनात् सुगन्धिश्च शीलसौगन्ध्यात् इदक इव-नद इव सम एव समिकः स्वभावो यस्य स तथा, यथा हि वाताभावे हृदः समो भवति अनिनोन्नतजलोपरिभाग इत्यर्थः तथा साधुः सत्कारन्यत्कारयोरनुन्नतानिम्नभावतया समो भवतीति, उद्घृष्टसुनिर्मलमिवादर्शमण्डलतलं प्रकटभावन-निर्मायतया अनिगृहितभावेन सुखभावः-शोभनखरूपः शुद्धभावो वेति शोण्डीर:-चारभटः कुञ्जर इव परीषहसैन्यापेक्षया वृषभ इव जातस्थामा-अङ्गीकृतमहाव्रतभारोगहने जातसामर्थ्यः सिंहो वा यथा मृगाधिप इति स्वरूपविशेषणं
-AARCASSC
Jain Education International
For Personal & Private Use Only
M
Mw.jainelibrary.org

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332