SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २ एवाह-विगतरागद्वेषमोहः, कूर्म इव इन्द्रियेषु गुप्तः यथा हि कच्छपः ग्रीवापञ्चमैश्चतुर्भिः पदैः कदाचिद गुप्तो भवतीत्येवं साधुरपीन्द्रियेषु, इन्द्रियानाश्रित्येत्यर्थः, जात्यकाञ्चनमिव जातरूपः रागादिकुद्रव्यापोहाल्लब्धखरूप इत्यर्थः, पुष्करपत्रमिव-पद्मदलमिव निरुपलेपो भोगगृद्धिलेपापेक्षया, चन्द्र इव सौम्यतया पाठान्तरेण सौम्यभावतया-सौम्यपरिणामेन अनुपतापकतया सूर इव दीसतेजाः-तपस्तेजः प्रतीत्य अचलो-निश्चलः परी|पहादिभिः यथा मन्दरो गिरिवरो मेरुरित्यर्थः अक्षोभ:-क्षोभवर्जितः सागर इव स्तिमितः भावकल्लोलर|हितः तथा पृथिवीव सर्वस्पर्शविषहः शुभाशुभस्पर्शेषु समचित्त इत्यर्थः, 'तवसाविय'त्ति तपसाऽपि च हेतु भूतेन भस्मराशिच्छन्न इव जाततेजाः-वह्निः, भावनेह-यथा भस्मच्छन्नो वहिरन्तज्वलति बहिर्लानो भवती|त्येवं श्रमणः शरीरमाश्रित्य तपसा म्लानो भवति अन्तः शुभलेश्यया दीप्यत इति, ज्वलितहुताशन इव तेजसा ज्वलन् साधुपक्षे तेजो-ज्ञानं भावतमोविनाशकत्वात्, गोशीर्षचन्दनमिव शीतलो मनासन्तापोपशमनात् सुगन्धिश्च शीलसौगन्ध्यात् इदक इव-नद इव सम एव समिकः स्वभावो यस्य स तथा, यथा हि वाताभावे हृदः समो भवति अनिनोन्नतजलोपरिभाग इत्यर्थः तथा साधुः सत्कारन्यत्कारयोरनुन्नतानिम्नभावतया समो भवतीति, उद्घृष्टसुनिर्मलमिवादर्शमण्डलतलं प्रकटभावन-निर्मायतया अनिगृहितभावेन सुखभावः-शोभनखरूपः शुद्धभावो वेति शोण्डीर:-चारभटः कुञ्जर इव परीषहसैन्यापेक्षया वृषभ इव जातस्थामा-अङ्गीकृतमहाव्रतभारोगहने जातसामर्थ्यः सिंहो वा यथा मृगाधिप इति स्वरूपविशेषणं -AARCASSC Jain Education International For Personal & Private Use Only M Mw.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy