Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
आह च-"सग्गामपरग्गामा जमाणियं आहडं तु तं होइ।" [खग्रामात् परग्रामात् यदानीतमाहृतं तु तद्भवति] 'महिओवलितंति, उपलक्षणत्वान्मृत्तिकाग्रहणस्य मृत्तिकाजतुगोमयादिना उपलिप्तं सत् यदुद्भिद्य ददाति तन्मृत्तिकोपलिप्तं उद्भिन्नमित्यर्थः, आह च-"छगणाइणोवलितं उभिदिय जं तमुभिण्णं" [[छगणादिनोपलिप्तमुद्भिद्य यत्तद्भिनं] 'अच्छेण्णं चेव'त्ति आच्छेद्यं यदाच्छिद्य भृत्यादिश्यः स्वामी ददाति,
आह च-"अच्छेजं अच्छिंदिय जं सामिय भिचमाईण" [यत् खामी भृत्यादिश्य आच्छिद्य ददाति तदाच्छेद्यं] अनिसृष्टं-बहुसाधारणं सत् यदेक एव ददाति “अणिसिटुं सामण्णं गोट्ठियभत्ताइ ददउ एगस्स" [[गोष्ठीकभक्तादि यत् सामान्यं तदेकस्य ददतोऽनिसृष्टं ] एतेषूद्दिष्टादिषु प्राय उद्गमदोषा उक्ताः, तथा सायत्तत्तिथिषु-मदनत्रयोदश्यादिषु यज्ञेषु-नागादिपूजासु उत्सवेषु च-शक्रोत्सवादिषु अन्तर्बहिर्वा उपाश्र
यात् भवेत् श्रमणार्थ स्थापितं-दानायोपस्थापितं हिंसालक्षणं यत्सावयं तत्सम्पयुक्तं न कल्पते तदपि च । परिग्रहीतुं, अथेति परप्रश्ने, कीदृशं?-किंविधं 'पुणाईति पुनः कल्पते-सङ्गच्छते परिग्रहीतुमोदनादीति प्रकृतं, उच्यते, यत्तदेकादशपिण्डपातशुद्धं-आचारस्य द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्यैकादशभिः पिण्डपाताभिधायकैरुद्देशविशुद्धं-तदक्तदोषविमुक्तं यत्तत्तथा. तथा क्रयणं हननं-विनाशनं पचनं च-अग्निपाक इति द्वन्द्वः एषां यानि कृतकारितानुमोदनानि-खयं करणकारणानुमतयः तानि तथा त एव नवकोट्यो विभागा इति समासः, ताभिः सुपरिशद्धं-निर्दोषं दशभिश्च दोषैर्विप्रमुक्तं ते च शङ्कितादय एषणादोषाः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332