Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
| स्तरो - विस्तारो यस्य संवरवरपादपस्य स तथा, बहुविधः - अनेकप्रकारः खरूपविशेषो यस्य स तथा तत्र सं| वरपक्षे बहुविधप्रकारत्वं विचित्रविषयापेक्षया क्षयोपशमाद्यपेक्षया च पादपपक्षे च मूलकन्दादिविशेषापेक्षयेति ततः पदद्वयस्य कर्मधारयः सम्यक्त्वमेव- सम्यग्दर्शनमेव विशुद्धं निर्दोषं मूलं - कन्दस्याधोवर्त्ति यस्य स तथा, धृतिः - चित्तखास्थ्यं सैव कन्दः - स्कन्धाधोभागरूपो यस्य स तथा, विनय एव वेदिका - पार्श्वतः परिकररूपा यस्य स तथा, 'निग्गयतेलोक 'त्ति प्राकृतत्वात् त्रैलोक्यनिर्गतं त्रैलोक्यगतं भुवनत्रयव्यापकं अत एव विपुलं विस्तीर्ण यद् यशः - ख्यातिस्तदेव निचितो निबिडः पीनः स्थूल: पीवरो - महान् सुजातः - सुनिष्पन्नः स्कन्धो यस्य स तथा, पञ्च महाव्रतान्येव विशाला - विस्तीर्णाः शाला:- शाखा यस्य स तथा, भावनैवअनित्यत्वादिचिन्ता त्वक्- वल्कलं यस्य, वाचनान्तरे भावनैव त्वगन्तो- वल्कावसानं यस्य स तथा, ध्यानं च - धर्म्मध्यानादि शुभयोगाश्च - सयापाराः ज्ञानं च - बोधविशेषः तान्येव पल्लववरा - अङ्कुराः प्रवालप्रवरप्ररोहाः तान् धारयति यः स तथा ततः पदद्वयस्य कर्मधारयः, बहवो ये गुणा - उत्तरगुणाः शुभफलरूपा वा त एव कुसुमानि तैः समृद्धो - जातसमृद्धिर्यः स तथा, शीलमेव - ऐहिकफलानपेक्षप्रवृत्तिः समाधानमेव वा सुगन्धः - सद्गन्धो यत्र स तथा, 'अणण्हवफलो'ति अनास्रवः - अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य स तथा, पुनश्च पुनरपि मोक्ष एव वरबीजसारो - मिञ्जालक्षणः सारो यस्य स तथा मन्दरगिरिशिखरे-मेरुधराधरशिखरे या चूलिका- चूडा सा तथा सा इव अस्य - प्रत्यक्षस्य मोक्षवरे- वरमोक्षे सकलकर्मक्षयलक्षणे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332